Book 4 • Chapter 35
Sarga 35
23 verses
Verse 1
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना
Verse 2
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति हरीणामीश्वरश्श्रोतुं तव वक्त्राद्विशेषतः
Verse 3
नैवाकृतज्ञस्सुग्रीवो न शठो नापि दारुणः नैवानृतकथो वीर न जिह्मश्च कपीश्वरः
Verse 4
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे
Verse 5
रामप्रसादात्कीर्तिञ्च कपिराज्यं च शाश्वतम् प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप
Verse 6
सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः
Verse 7
घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः
Verse 8
स हि प्राप्तं न जानीते कालं कालविदां वरः विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः
Verse 9
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि
Verse 10
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा
Verse 11
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्
Verse 12
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता महान्रोषसमुत्पन्न स्संरम्भस्त्यज्यतामयम्
Verse 13
रुमां मां कपि राज्यं च धनधान्यवसूनि च रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम
Verse 14
समानेष्यति सुग्रीव स्सीतया सह राघवम् शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे
Verse 15
शतकोटिसहस्राणि लङ्कायां किल राक्षसाः आयुतानि च षट्त्रिंशत्सहस्राणि शतानि च
Verse 16
अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः न शक्यो रावणो हन्तुं येन सा मैथिली हृता
Verse 17
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः
Verse 18
एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः आगमस्तु न मे व्यक्तश्श्रवात्तस्माद्ब्रवीम्यहम्
Verse 19
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः आनेतुं वानरान्युद्धे सुबहून्हरियूधपान्
Verse 20
तांश्च प्रतीक्षमाणोऽयं विक्रान्तात्सुमहाबलान् राघवस्यार्थसिध्यर्थं न निर्याति हरीश्वरः
Verse 21
कृता तु संस्था सौमित्रे सुग्रीवेण पुरा यथा अद्य तैर्वानरैस्सर्वैरागन्तव्यं महाबलैः
Verse 22
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्
Verse 23
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्कितास्तु सर्वाः
0:000:00
Speed: