Book 4 • Chapter 36
Sarga 36
20 verses
Verse 1
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् मृदुस्वभावस्सौमित्रिः प्रतिजग्राह तद्वचः
Verse 2
तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत्
Verse 3
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः
Verse 4
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः अब्रवीत्प्रश्रितं वाक्यं सुग्रीव स्सम्प्रहर्षयन्
Verse 5
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् रामप्रसादात्सौमित्रे पुन: प्राप्तमिदं मया
Verse 6
कश्शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम
Verse 7
सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् सहायमात्रेण मया राघव स्स्वेन तेजसा
Verse 8
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः शैलश्च वसुधा चैव बाणेनैकेन दारिताः
Verse 9
धनुर्विष्फारयानस्य यस्य शब्देन लक्ष्मण सशैला कम्पिता भूमिस्सहायै: किन्नु तस्य वै
Verse 10
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्
Verse 11
यदि किञ्चिदतिक्रान्तं विश्वासात्प्रणयेन वा प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति
Verse 12
ति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह
Verse 13
सर्वथा हि मम भ्राता सनाथो वानरेश्वर त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः
Verse 14
यस्ते प्रभाव स्सुग्रीव यच्च ते शौचमार्जवम् अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्
Verse 15
सहायेन तु सुग्रीव त्वया रामः प्रतापवान् वधिष्यति रणे शत्रूनचिरान्नात्र संशयः
Verse 16
धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः उपपन्नं च युक्तं च सुग्रीव तव भाषितम्
Verse 17
दोषज्ञस्सति सामर्थ्ये कोऽन्यो भाषितुमर्हति वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम
Verse 18
सदृशश्चासि रामस्य विक्रमेण बलेन च सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव
Verse 19
किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह सान्त्वयस्व वयस्यं च त्वं भार्याहरणकर्शितम्
Verse 20
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् मया त्वं परुषाण्युक्तस्तच्चत्वं क्षन्तु मर्हसि
0:000:00
Speed: