Book 4 • Chapter 67
Sarga 67
50 verses
Verse 1
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्
Verse 2
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्
Verse 3
प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः
Verse 4
संस्तूयमानो हनुमान्व्यवर्धत महाबलः समाविध्य च लाङ्गूलं हर्षाद्बलमुपेयिवान्
Verse 5
तस्य संस्तूयमानस्य सर्वैर्वानरपुङ्गवैः तेजसापूर्यमाणस्य रूपमासीदनुत्तमम्
Verse 6
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते
Verse 7
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः अम्बरीषमिवाऽदीप्तं विधूम इव पावकः
Verse 8
हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत्
Verse 9
अरुजत्सर्वताग्राणि हुताशनसखोऽनिलः बलवानप्रमेयश्च वायुराकाशगोचरः
Verse 10
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः
Verse 11
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः
Verse 12
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे समाप्लावयितुं लोकं सपर्वतनदीह्रदम्
Verse 13
ममोरुजङ्घावेगेन भविष्यति समुत्थितः सम्मूर्च्छितमहाग्राहस्समुद्रो वरुणालयः
Verse 14
पन्नगाशनमाकाशे पतन्तं पक्षिसेविते वैनतेयमहं शक्तः परिगन्तुं सहस्रशः
Verse 15
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् अनस्तमितमादित्यमभिगन्तुं समुत्सहे ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे प्रवेगेनैव महता भीमेन प्लवगर्षभाः
Verse 16
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् अनस्तमितमादित्यमभिगन्तुं समुत्सहे ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे प्रवेगेनैव महता भीमेन प्लवगर्षभाः
Verse 17
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम्
Verse 18
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम्
Verse 19
लतानां विविधं पुष्पं पादपानां च सर्वशः अनुयास्यन्ति मामद्य प्लवमानं विहायसा
Verse 20
भविष्यति हि मे पन्थास्स्वातेः पन्था इवाम्बरे चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा द्रक्ष्यन्ति निपतिष्यन्तं च सर्वभूतानि वानराः
Verse 21
महामेरुप्रतीकाशं मां द्रक्ष्यथ वानराः दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्
Verse 22
विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् सागरं शोषयिष्यामि प्लवमानस्समाहितः
Verse 23
वैनतेयस्य या शक्तिर्मम सा मारुतस्य वा ऋते सुपर्णराजानं मारुतं वा महाजवम् न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्
Verse 24
वैनतेयस्य या शक्तिर्मम सा मारुतस्य वा ऋते सुपर्णराजानं मारुतं वा महाजवम् न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्
Verse 25
निमेषान्तरमात्रेण निरालम्बनमम्बरम् सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता
Verse 26
भविष्यति हि मे रूपं प्लवमानस्य सागरे विष्णोर्विक्रममाणस्य पुरा त्रीन्विक्रमानिव
Verse 27
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः
Verse 28
मारुतस्य समो वेगे गरुडस्य समो जवे अयुतं योजनानां तु गमिष्यामीति मे मतिः
Verse 29
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः विक्रम्य सहसा हस्तादमृतं तदिहानये लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः
Verse 30
तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः
Verse 31
तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः
Verse 32
वीर केसरिणः पुत्र हनुमान्मारुतात्मज ज्ञातीनां विपुलश्शोकस्त्वया तात प्रणाशितः
Verse 33
तव कल्याणरुचयः कपिमुख्यास्समागताः मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः
Verse 34
ऋषीणां च प्रसादेन कपिवृद्धमतेन च गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम्
Verse 35
स्थास्यामश्चैकपादेन यावदागमनं तव त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम्
Verse 36
ततस्तु हरिशार्दूलस्तानुवाच वनौकसः नेयं मम मही वेगं लङ्घने धारयिष्यति
Verse 37
एतानीह नगस्यास्य शिलासङ्कटशालिनः शिखराणि महेन्द्रस्य स्थिराणि सुमहान्ति च
Verse 38
एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु
Verse 39
एतानि मम निष्पेषं पादयोः प्लवतां वराः प्लवतो धारयिष्यन्ति योजनानामितश्शतम्
Verse 40
ततस्तं मारुतप्रख्यस्सहरिर्मारुतात्मजः आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः वृतं नानाविधैः वृक्षैर्मृगसेवितशाद्वलम् लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम्
Verse 41

Verse 42

Verse 43
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः
Verse 44
पादाभ्यां पीडितस्तेन महाशैलो महात्मना रराज सिंहाभिहतो महान्मत्त इव द्विपः
Verse 45
मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः
Verse 46
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि त्यज्यमानमहासानुस्सन्निलीनमहोरगः चलशृङ्गशिलोद्घातस्तदाऽभूत्स महागिरिः
Verse 47
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि त्यज्यमानमहासानुस्सन्निलीनमहोरगः चलशृङ्गशिलोद्घातस्तदाऽभूत्स महागिरिः
Verse 48
निश्श्वसद्भिस्तदाऽर्तैस्तु भुजङ्गैरर्धनि:सृतैः सपताक इवाभाति स तदा धरणीधरः
Verse 49
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः सीदन्महति कान्तारे सार्थहीन इवाध्वगः
Verse 50
सवेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता मनस्समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी
0:000:00
Speed: