Book 4 • Chapter 66
Sarga 66
37 verses
Verse 1
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् जाम्बवान्समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्
Verse 2
वीर वानरलोकस्य सर्वशास्त्रविदां वर तूष्णीमेकान्तमाश्रित्य हनूमन्किं न जल्पसि
Verse 3
हनूमन्हरिराजस्य सुग्रीवस्य समो ह्यसि रामलक्ष्मणयोश्चापि तेजसा च बलेन च
Verse 4
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः गरुत्मानिति विख्यात उत्तमस्सर्वपक्षिणाम्
Verse 5
बहुशो हि मया दृष्टः सागरे स महाबलः भुजङ्गानुद्धरन्पक्षी महावेगो महायशाः
Verse 6
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव विक्रमश्चापि वेगश्च न ते तेनावहीयते
Verse 7
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे
Verse 8
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला अञ्जनेति परिख्याता पत्नी केसरिणो हरेः
Verse 9
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि अभिशापादभूत्तात वानरी कामरूपिणी
Verse 10
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः मानुषं विग्रहं कृत्वा रूपयौवनशालिनी विचित्रमाल्याभरणा महार्हक्षौमवासिनी अचरत्पर्वतस्याग्रे प्रावृडम्बुदसन्निभे
Verse 11
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः मानुषं विग्रहं कृत्वा रूपयौवनशालिनी विचित्रमाल्याभरणा महार्हक्षौमवासिनी अचरत्पर्वतस्याग्रे प्रावृडम्बुदसन्निभे
Verse 12
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः
Verse 13
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्
Verse 14
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् दृष्टवैव शुभसर्वाङ्गीं पवनः काममोहितः
Verse 15
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्
Verse 16
सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत् एकपत्नीव्रतमिदं को नाशयितुमिच्छति
Verse 17
अञ्जनाया वच्शुत्वा मारुतः प्रत्यभाषत न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम्
Verse 18
मनसाऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् वीर्यवान्बुद्धिसम्पन्न: पुत्रस्तव भविष्यति
Verse 19
महासत्त्वो महातेजा महाबलपराक्रमः लङ्घने प्लवने चैव भविष्यति हि मत्समः
Verse 20
एवमुक्ता ततस्तुष्टा जननी ते महाकपे गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम्
Verse 21
अभ्युत्थितं ततस्सूर्यं बालो दृष्ट्वा महावने फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम्
Verse 22
शतानि त्रीणि गत्वाऽथ योजनानां महाकपे तेजसा तस्य निर्धूतो न विषादं ततोगतः
Verse 23
तावदापपत स्तूर्णमन्तरिक्षं महाकपे क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन धीमता
Verse 24
तदा शैलाग्रशिखरे वामो हनुरभज्यत ततो हि नामधेयं ते हनुमानिति कीर्त्यते
Verse 25
तस्त्वावि निहतं दृष्ट्वा वायुर्गन्धवहस्स्वयम् त्रैलोक्ये भृशसङ्कृद्धो न ववौ वै प्रभञ्जनः
Verse 26
सम्भ्रान्ताश्च सूरास्सर्वे त्रैलोक्ये क्षुभिते सति प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः
Verse 27
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ अशस्त्रवध्यतां तात समरे सत्यविक्रम
Verse 28
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् स्वच्छन्दतश्च मरणं तेभूयादिति वै प्रभो
Verse 29
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः
Verse 30
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः
Verse 31
वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः
Verse 32
त्रिविक्रमे मया तात सशैलवनकानना त्रिस्सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्
Verse 33
तथा चौषधयोऽस्माभिस्सञ्चिता देवशासनात् निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम्
Verse 34
स इदानीमहं वृद्धः परिहीनपराक्रमः साम्प्रतं कालमस्माकं भवान्सर्वगुणान्वितः
Verse 35
तद्विजृम्भस्व विक्रान्त: प्लवतामुत्तमो ह्यसि त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी
Verse 36
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् परा हि सर्वभूतानां हनुमन्या गतिस्तव
Verse 37
विषण्णा हरयस्सर्वे हनुमन्किमुपेक्षसे विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव
0:000:00
Speed: