Book 4 • Chapter 65
Sarga 65
34 verses
Verse 1
अथाङ्गदवचश्श्रुत्वा ते सर्वे वानरर्षभाः स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् गजो गवाक्षो गवयश्शरभो गन्धमादनः मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवां स्तथा
Verse 2

Verse 3
आबभाषे गजस्तत्र प्लवेयं दशयोजनम् गवाक्षो योजननान्याह गमिष्यामीति विंशतिम्
Verse 4
गवयो वानरस्तत्र वानरां स्तानुवाच ह त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः शरभस्तानुवाचाथ वानरान् वानरर्षभः चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः वानरस्तु महातेजा अब्रवीद्गन्धमादनः योजनानां गमिष्यामि पञ्चाशत्तु न संशयः मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह योजनानां परं षष्टिमहं प्लवितुमुत्सहे ततस्तत्र महातेजा द्विविदः प्रत्यभाषत गमिष्यामि न सन्देहस्सप्ततिं योजनान्यहम् सुषेणस्तु महातेजा:प्रोक्तवान्हरिसत्तमान् अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः
Verse 5

Verse 6

Verse 7

Verse 8

Verse 9

Verse 10
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत
Verse 11
पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ते वयं वयसः पारमनुप्राप्तास्स्म साम्प्रतम्
Verse 12
किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ
Verse 13
साम्प्रतं कालभेदेन या गतिस्तां निबोधत नवतिं योजनानां तु गमिष्यामि न संशयः
Verse 14
तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् न खल्वेतावदेवासीद्गमने मे पराक्रमः
Verse 15
मया महाबलेश्चैव यज्ञे विष्णुस्सनातनः प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्
Verse 16
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः यौवने च तदाऽसीन्मे बलमप्रतिमं परैः
Verse 17
सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् नैतावता हि संसिद्धिः कार्यस्यास्य भविष्यति
Verse 18
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा अनुमान्य तथा प्राज्ञो जाम्बवन्तं महाकपिम्
Verse 19
अहमेतद्गमिष्यामि योजनानां शतं महत् निवर्तने तु मे शक्तिस्स्यान्न वेति न निश्चितम्
Verse 20
तमुवाच हरिश्रेष्ठं जाम्बवान्वाक्यकोविदः ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम
Verse 21
कामं शतं सहस्रं वा न ह्येष विधिरुच्यते योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम्
Verse 22
न हि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन भवताऽयं जनस्सर्वः प्रेष्यः प्लवगसत्तम
Verse 23
भवान्कळत्रमस्माकं स्वामिभावे व्यवस्थितः स्वामी कळत्रं सैन्यस्य गतिरेषा परन्तप
Verse 24
अपि चैतस्य कार्यस्य भवान्मूलमरिन्दम तस्मात्कळत्रवत्तात प्रतिपाल्यस्सदा भवान्
Verse 25
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः मूले सति हि सिद्ध्यन्ति गुणा फलो पुष्पोदयाः
Verse 26
तद्भवानस्य कार्यस्य साधने सत्यविक्रम बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप
Verse 27
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने
Verse 28
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः
Verse 29
यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्
Verse 30
न ह्यकृत्वा हरिपतेस्सन्देशं तस्य धीमतः तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्
Verse 31
स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः अतीत्य तस्य सन्देशं विनाशो गमने भवेत्
Verse 32
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः तद्भवानेव दृष्टार्थस्सञ्चिन्तयितु मर्हति
Verse 33
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम्
Verse 34
अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति
0:000:00
Speed: