Book 4 • Chapter 64
Sarga 64
24 verses
Verse 1
आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः सङ्गताः प्रीतिसंयुक्ता विनेदुर्भीमविक्रमाः
Verse 2
सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् हृष्टास्सागरमाजग्मुस्सीतादर्शनकाङ्क्षिणः
Verse 3
अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्
Verse 4
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः
Verse 5
सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले व्यात्तास्यैस्सुमहाकायैरूर्मिभिश्च समाकुलम् प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः रोमहर्षकरं दृष्ट्वा विषेदु: कपिकुञ्जराः
Verse 6

Verse 7

Verse 8
आकाशमिव दुष्पारं सागरं प्रेक्षय वानराः विषेदु स्सहसासर्वे कथं कार्यमिति ब्रुवन्
Verse 9
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् आश्वासयामास हरीन्भयार्तान् हरिसत्तमः
Verse 10
तान्विषादेन महता विषण्णान्वानरर्षभान् उवाच मतिमान्काले वालिसूनुर्महाबलः
Verse 11
न विषादे मनः कार्यं विषादो दोषवत्तमः विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः
Verse 12
यो विषादं प्रसहते विक्रमे पर्युपस्थिते तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति
Verse 13
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैस्सह हरिवृद्धैस्समागम्य पुनर्मन्त्रममन्त्रयत्
Verse 14
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ वासवं परिवार्येव मरुतां वाहिनी स्थिता
Verse 15
कोऽन्यस्तां वानरीं सेनां शक्त:स्तम्भयितुं भवेत् अन्यत्र वालितनयादन्यत्र च हनूमतः
Verse 16
ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिन्दमः अनुमान्याङ्गदश्श्रीमान्वाक्यमर्थवदब्रवीत्
Verse 17
क इदानीं महातेजा लङ्घयिष्यति सागरम् कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम्
Verse 18
को वीरो योजनशतं लङ्घयेत प्लवङ्गमाः इमांश्च यूथपान् सर्वान्मोक्षयेत्को महाभयात्
Verse 19
कस्य प्रभावाद्धारांश्च पुत्रांश्चैव गृहाणि च इतो निवृत्ताः पश्येम सिद्धार्थास्सुखिनो वयम्
Verse 20
कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् अभिगच्छेम संहृष्टास्सुग्रीवं च वनौकसम्
Verse 21
यदि कश्चित्समर्थो वस्सागरप्लवने हरिः स ददा त्विह न शशीघ्रं पुण्यामभयदक्षिणाम्
Verse 22
अङ्गदस्य वच श्शृत्वा न कश्चित् किञ्चिदब्रवीत् स्तिमिते वा भवत्सर्वा सा तत्र हरिवाहिनी
Verse 23
पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः
Verse 24
न हि वो गमने सङ्गः कदाचित्कस्यचित्क्वचित् ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः
0:000:00
Speed: