Book 4 • Chapter 63
Sarga 63
15 verses
Verse 1
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टस्स स्वमालयम्
Verse 2
कन्दरात्तु विसर्पित्वा पर्वतस्य शनैश्शनैः अहं विन्ध्यं समारुह्य भवतः प्रतिपालये
Verse 3
अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः
Verse 4
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम्
Verse 5
उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः
Verse 6
बुद्ध्यता च मया वीर्यं रावणस्य दुरात्मनः पुत्रस्सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम्
Verse 7
तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम्
Verse 8
तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैस्सह उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्
Verse 9
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्
Verse 10
ऋषेर्निशाकरस्यैव प्रभावादमितात्मन: आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुपस्थितौ
Verse 11
यौवने वर्तमानस्य ममासीद्यः पराक्रमः तमेवाद्यावगच्छामि बलं पौरुषमेव च
Verse 12
सर्वथा क्रियतां यत्न स्सीतामधिगमिष्यथ पक्षलाभो ममायं वस्सिद्धिप्रत्ययकारकः
Verse 13
इत्युक्त्वा स तान्हरीन् सर्वान्सम्पातिः पतगोत्तमः उत्पपात गिरेश्शृङ्गाज्जिज्ञासुः खगमो गतिम्
Verse 14
तस्य तद्वचनं श्रुत्वा प्रतिसंहृष्टमानसाः बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः
Verse 15
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः अभिजिदभिमुखा दिशं ययु र्जनकसुतापरिमार्गणोन्मुखाः
0:000:00
Speed: