Book 4 • Chapter 62
Sarga 62
15 verses
Verse 1
एवमुक्ता मुनिश्रेष्ठ मरुदं दुःखितो भृशं अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत्
Verse 2
पक्षौ तु ते प्रपक्षौ च पुनरन्यौभविष्यतः प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते
Verse 3
पुराणे सुमहत्कार्यं भविष्यति मया श्रुतं दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम4.62.3
Verse 4
राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः तस्य पुत्रो महातेजा रमोनाम भविष्यति
Verse 5
अरण्यं च सह र्भात्रा लक्ष्मणेनगमिष्यति अस्मिन्नर्थे नियुक्त स्सन्पित्रा सत्यपराक्रमः
Verse 6
नैऋतो रावणो नाम तस्य भार्यां हरिष्यति राक्षसेन्द्रो जनस्थनादवध्य स्सुरदानवैः4.62.6
Verse 7
सा च कामैः प्रलोभ्यन्ती भक्ष्यै:भोज्यैश्च मैथिली नभोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी
Verse 8
परमान्नंतु वैदेह्या ज्ञात्वा दास्यति वा सः यदन्नममृतप्रख्यं सुराणामपिदुर्लभम्4.62.8
Verse 9
तदन्नं मैथिलीप्राप्य विज्ञायेन्द्रादिदंत्विति अग्रमुदृत्य रामाय भूतले निर्वपिष्यति
Verse 10
यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः देवत्वं गच्छ्तो र्वापि तयो रन्नमिदंत्विति4.62.10
Verse 11
एष्यन्त्यन्वेषका स्तस्या रामदूताः प्लवांगमाः आख़्येया राम महीषी त्वया तेभ्यो विहंगम4.62.11
Verse 12
सर्वथा हि नगन्तव्यमीदृशः क्व गमिष्यसि देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे4.62.12
Verse 13
नोत्सहेयमहंकर्तुमध्यैव त्वां सपक्षकम् इहस्थ स्त्वं तु लोकानां हितं कार्यं करिष्यसि
Verse 14
त्वयापि खलु तत्कार्यं तयोश्चनृपपुत्रयोः ब्राह्मणानां सुराणां च मुनीनां वासवस्य च
Verse 15
इच्छाम्यहमपिद्रष्टुं भ्रातरौ रामलक्ष्मणौ नेच्छेचिरं धारयुतुं प्राणां स्त्यक्ष्ये कलेबरं महर्षि स्त्वब्रवीदेवं दृष्टतत्वार्थदर्शनः
0:000:00
Speed: