🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 61

Sarga 61

17 verses

Verse 1
ततस्तद्दारुणं कर्म दुष्करं सहसात्कृतम् आचचक्षे मुनेस्सर्वं सूर्यानुगमनं तथा
Verse 2
भगवन्व्रणयुक्तत्वाल्लज्जया व्याकुलेन्द्रियः परिश्रान्तो  शक्नोमि वचनं परिभाषितुम्
Verse 3
अहं चैव जटायुश्च सङ्घर्षाद्धर्पमोहितौ आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम्
Verse 4
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् रविस्स्यादनुयातव्यो यावदस्तं महागिरिम्
Verse 5
अथाऽवां युगपत्प्राप्तावपश्याव महीतले रथचक्रप्रमाणानि नगराणि पृथक्पृथक्
Verse 6
क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः
Verse 7
तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ आवामालोकयावस्तद्वनं शाद्वलसन्निभम्
Verse 8
उपलैरिव सञ्छन्ना दृश्यते भूश्शिलोच्चयैः आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा
Verse 9
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः भूतले सम्प्रकाशन्ते नागा इव जलाशये
Verse 10
तीव्रस्स्वेदश्च खेदश्च भयं चासीत्तदाऽऽवयोः समाविशति मोहश्च तमो मूर्छा  दारुणा
Verse 11
 दिग्विज्ञायते याम्या नाग्नेयी   वारुणी युगान्ते नियतो लोको हतो दग्ध इवाग्निना
Verse 12
मनश्च मे हतं भूयस्सन्निवर्त्यतु संश्रयम् यत्नेन महता ह्यस्मिन्पुनस्सन्धाय चक्षुषी यत्नेन महता भूयो भास्करः प्रतिलोकितः तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ
Verse 13
मनश्च मे हतं भूयस्सन्निवर्त्यतु संश्रयम् यत्नेन महता ह्यस्मिन्पुनस्सन्धाय चक्षुषी यत्नेन महता भूयो भास्करः प्रतिलोकितः तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ
Verse 14
जटायुर्मामनापृच्छ्य निपपात महीं ततः तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्
Verse 15
पक्षाभ्यां  मया गुप्तो जटायुर्न प्रदह्यते प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम्
Verse 16
आशङ्के तं निपतितं जनस्थाने जटायुषम् अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः
Verse 17
राज्येन हीनो भ्रात्रा  पक्षाभ्यां विक्रमेण  सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गीरेः
0:000:00
Speed: