🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 60

Sarga 60

21 verses

Verse 1
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः उपविष्टा गिरौ रम्ये परिवार्य समन्ततः
Verse 2
तमङ्गदमुपासीनं तैस्सर्वैर्हरिभिर्वृतम् जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत्
Verse 3
कृत्वा निश्शब्दमेकाग्रा श्श्रुण्वन्तु हरयो मम तत्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम्
Verse 4
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरावने सूर्यतपपरीताङ्गो निर्दग्धस्सूर्यरश्मिभिः
Verse 5
लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव वीक्षमाणो दिशस्सर्वा नाभिजानामि किञ्चन
Verse 6
ततस्तु सागरान् शैलान्नदीस्सर्वास्सरांसि  वनानि  प्रदेशांश्च नीरीक्ष्य मतिरागता
Verse 7
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः
Verse 8
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत्
Verse 9
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना वसतो मम धर्मज्ञा स्वर्गते तु निशाकरे
Verse 10
अवतीर्य तु विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः
Verse 11
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् जटायुषा मया चैव बहुशोऽभिगतो हि सः
Verse 12
तस्याश्रमपदाभ्याशे ववुर्वातास्सुगन्धिनः वृक्षो वापुष्पितः कश्चिदफलो वा  विद्यते
Verse 13
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः द्रष्टुकामः प्रतीक्षेऽहं भगवन्तं निशाकरम्
Verse 14
अथापश्यमदूरस्थमृषिं ज्वलिततेजसम् कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्
Verse 15
तमृक्षास्सृमरा व्याघ्रास्सिंहा नागास्सरीसृपाः परिवार्योपगच्छन्ति धातारं प्राणिनो यथा
Verse 16
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्
Verse 17
ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत
Verse 18
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते अग्निदग्धाविमौ पक्षौ व्रणाश्चापि शरीरके
Verse 19
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ
Verse 20
ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव मानुषं रूपमास्थाय गृह्णीतां चरणौ मम
Verse 21
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् दण्डोऽयंच कृतः केन सर्वमाख्याहि पृच्छतः
0:000:00
Speed: