Book 4 • Chapter 59
Sarga 59
28 verses
Verse 1
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः
Verse 2
जाम्बवान् वानरश्रेष्ठस्सह सर्वैः प्लवङ्गमैः भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत्
Verse 3
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् तदाख्यातु भवात्सर्वं गतिर्भव वनौकसाम्
Verse 4
को दाशरथि बाणानां वज्रवेगनिपातिनाम् स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्
Verse 5
स हरीन्प्रीतिसंयुक्तान्सीताश्रुतिसमाहितान् पुनराश्वसयन्प्रीत: इदं वचनमब्रवीत्
Verse 6
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् येन चापि ममाऽख्यातं यत्र वायतलोचना
Verse 7
अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः
Verse 8
तं मामेवं गतं पुत्रस्सुपार्श्वोनाम नामतः आहारेण यथाकालं बिभर्ति पततां वरः
Verse 9
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्
Verse 10
स कदाचित्क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः
Verse 11
स मामाहारसंरोधात्पीडितं प्रीतिवर्धनः अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्
Verse 12
अहं तात यथाकालमामिषार्थी खमाप्लुतः महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमास्थितः
Verse 13
तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः
Verse 14
तत्र कश्चिन्मया दृष्ट स्सूर्योदयसमप्रभाम् स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयप्रभः
Verse 15
सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः तेन साम्ना विनीतेन पन्थानमभियाचितः
Verse 16
न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः
Verse 17
स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः अथाऽहं खेचरैर्भूतैरभिगम्य सभाजितः
Verse 18
दिष्ट्या जीवसि तातेति ह्यब्रुवन्मां महर्षयः कथञ्चित्सकळत्रोऽसौ गतस्ते स्वस्त्यसंशयम्
Verse 19
एव मुक्तस्ततोऽहं तैस्सिद्धै: परमशोभनैः स च मे रावणो राजा रक्षसां प्रतिवेदितः हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम्
Verse 20
एव मुक्तस्ततोऽहं तैस्सिद्धै: परमशोभनैः स च मे रावणो राजा रक्षसां प्रतिवेदितः हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम्
Verse 21
एष कालात्ययस्तावदिति कालविदां वरः एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत्
Verse 22
तच्छृत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे
Verse 23
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम्
Verse 24
वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः
Verse 25
ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः प्रेषिताः कपिराजेन देवैरपि दुरासदाः
Verse 26
रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे
Verse 27
कामं खलु दशग्रीव स्तेजोबलसमन्वितः भवतां तु समर्थानां न किञ्चिदपि दुष्करम्
Verse 28
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः
0:000:00
Speed: