🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 58

Sarga 58

36 verses

Verse 1
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः
Verse 2
यवीयान्मम भ्राता जटायुर्नाम वानराः यमाख्यात हतं युद्धे रावणेन बलीयसा
Verse 3
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये  हि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे
Verse 4
पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्
Verse 5
आवृत्त्याऽकाशमार्गे तु जवेन स्म गतौ भृशम् मध्यं प्राप्ते दिनकरे जटायुरवसीदति
Verse 6
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् पक्षाभ्यां छादयामास स्नेहात्परमविह्वलः
Verse 7
निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरर्षभाः अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये
Verse 8
जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्ततः
Verse 9
जटायुषो यदि भ्राता श्रुतं ते गदितं मया आख्या हि यदि जानासि निलयं तस्य रक्षसः
Verse 10
अदीर्घदर्शिनं तं वै रावणं राक्षसाधिपम् अन्तिके यदि वा दूरे यदि जानासि शंस नः
Verse 11
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः आत्मानुरूपं वचनं वानरान्सम्प्रहर्षयन्
Verse 12
निर्दग्धपक्षो गृध्रोऽहं हीनवीर्य: प्लवङ्गमाः वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्
Verse 13
जानामि वारुणान्लोकान्विष्णोस्त्रै विक्रमानपि महासुरविमर्दन्वा श्च ह्यमृतस्य  मन्थनम्
Verse 14
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया जरया  हृतं तेजः प्राणाश्च शिथिला मम
Verse 15
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ह्रियमाणा मया दृष्टा रावणेन दुरात्मना क्रोशन्ती राम रामेति लक्ष्मणेति  भामिनी भूषणान्यपविध्यन्ती गात्राणि  विधुन्वती
Verse 16
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ह्रियमाणा मया दृष्टा रावणेन दुरात्मना क्रोशन्ती राम रामेति लक्ष्मणेति  भामिनी भूषणान्यपविध्यन्ती गात्राणि  विधुन्वती
Verse 17
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् असिते राक्षसे भाति यथा वा तटिदम्बुदे
Verse 18
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् श्रूयतां मे कथयतो निलयं तस्य रक्षसः
Verse 19
पुत्रो विश्रवस स्साक्षाद्भ्राता वैश्रवणस्य  अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः
Verse 20
इतो द्वीपस्समुद्रस्य सम्पूर्णे शतयोजने तस्मिन्लङ्कापुरी रम्या निर्मिता विश्वकर्मणा
Verse 21
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः प्रासादैर्हेमवर्णैश्च महद्भिः सुसमा कृता प्राकारेणार्कवर्णेन महता  समान्विता
Verse 22
तस्यां वसति वैदेही दीना कौशेयवासिनी रावणान्तःपुरे रुद्धा राक्षसीभिस्सुरक्षिता जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम्
Verse 23
तस्यां वसति वैदेही दीना कौशेयवासिनी रावणान्तःपुरे रुद्धा राक्षसीभिस्सुरक्षिता जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम्
Verse 24
लङ्कायामथ गुप्तायां सागरेण समन्ततः सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः
Verse 25
लङ्कायामथ गुप्तायां सागरेण समन्ततः सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः
Verse 26
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः द्वितीयो बलिभोजानां ये  वृक्षफलाशिनः भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैस्सह श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्
Verse 27

Verse 28
बलवीर्योपपन्नानां रूपयौवनशालिनाम् षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः
Verse 29
बलवीर्योपपन्नानां रूपयौवनशालिनाम् षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः
Verse 30
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा
Verse 31
तस्मादाहारवीर्येण निसर्गेण  वानराः आयोजनशतात्साग्राद्वयं पश्याम नित्यशः
Verse 32
अस्माकं विहिता वृत्तिर्निसर्गेण  दूरतः विहिता पादमूले तु वृत्तिश्चरणयोधिनाम्
Verse 33
गर्हितं तु कृतं कर्म येन स्म पशिताशिना प्रतीकार्यं  मे तस्य वैरं भ्रातृकृतं भवेत्
Verse 34
उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ
Verse 35
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् प्रदास्याम्युदकं भ्रातुस्स्वर्गतस्य महात्मनः
Verse 36
ततो नीत्वा तु तं देशं तीरं नदनदीपतेः निर्दग्धपक्षं सम्पातिं वानरास्सुमहौजसः पुनः प्रत्यानयित्वा  तं देशं पतगेश्वरम् बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते
0:000:00
Speed: