🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 57

Sarga 57

19 verses

Verse 1
तत्तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम् अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः
Verse 2
कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः
Verse 3
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्
Verse 4
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः अतिदीर्घस्य कालस्य परितुष्टोऽस्मि परिकीर्तनात्
Verse 5
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः
Verse 6
तस्यैव  मम भ्रातुस्सखा दशरथः कथम् यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः
Verse 7
सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् इच्छेयं पर्वतादस्मादवतर्तु मरिन्दमाः
Verse 8
शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः
Verse 9
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति
Verse 10
सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः
Verse 11
एतां बुद्धिं ततश्चक्रुस्सर्वे ते वानरर्षभाः अवतार्य गिरेश्शृङ्गाद्गृध्रमाहाङ्गदस्तदा
Verse 12
बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ममार्यः पार्थिवः पक्षिन् धार्मिक स्तस्य चात्मजौ 4.57.12 सुग्रीवश्चैव वाली  पुत्रावोघबलावुभौ लोकेविश्रुतकर्माभूद्राजा वाली पिता मम
Verse 13
बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ममार्यः पार्थिवः पक्षिन् धार्मिक स्तस्य चात्मजौ 4.57.12 सुग्रीवश्चैव वाली  पुत्रावोघबलावुभौ लोकेविश्रुतकर्माभूद्राजा वाली पिता मम
Verse 14
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः
Verse 15
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः
Verse 16
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा
Verse 17
रावणं विरथं कृत्वा स्थापयित्वा  मैथिलीम् परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे
Verse 18
एवं गृध्रो हतस्तेन रावणेन बलीयसा संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्
Verse 19
ततो मम पितृव्येण सुग्रीवेण महात्मना चकार राघवस्सख्यं सोऽवधीत्पितरं मम
0:000:00
Speed: