🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 56

Sarga 56

17 verses

Verse 1
उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले हरयो गृध्रराजश्च तं देशमुपचक्रमे सम्पातिर्नाम नाम्ना तु चिरञ्जीवी विहङ्गमः भ्राता जटायुषः श्रीमान्विख्यातबलपौरुषः
Verse 2
उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले हरयो गृध्रराजश्च तं देशमुपचक्रमे सम्पातिर्नाम नाम्ना तु चिरञ्जीवी विहङ्गमः भ्राता जटायुषः श्रीमान्विख्यातबलपौरुषः
Verse 3
कन्दरादभिनिष्क्रम्य  विन्ध्यस्य महागिरेः उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत्
Verse 4
विधिः किल नरं लोके विधानेनानुवर्तते यथाऽयं विहितो भक्ष्यश्चिरान्मह्यमुपागतः
Verse 5
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान्
Verse 6
तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्
Verse 7
पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः इमं देशमनुप्राप्तो वानराणां विपत्तये
Verse 8
रामस्य  कृतं कार्यं राज्ञो   वचः कृतम् हरीणामियमज्ञाता विपत्तिस्सहसागता
Verse 9
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा गृध्राराजेन यत्तत्र श्रुतं वस्तदशेषतः
Verse 10
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम्
Verse 11
अन्योऽन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः तेन तस्योपकारार्थं त्यजताऽत्मानमात्मना
Verse 12
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः कान्ताराणि प्रपन्नाः स्म   पश्याम मैथिलीम्
Verse 13
 सुखी गृध्रराजस्तु रावणेन हतो रणे मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम्
Verse 14
जटायुषो विनाशेन राज्ञो दशरथस्य  हरणेन  वैदेह्या स्संशयं हरयो गताः
Verse 15
रामलक्ष्मणयोर्वासश्च अरण्ये सह सीतया राघवस्य  बाणेन वालिनश्च तथा वधः रामकोपादशेषाणां रक्षसानां तथा वधः कैकेय्या वरदानेन इदं  विकृतं कृतम्
Verse 16
रामलक्ष्मणयोर्वासश्च अरण्ये सह सीतया राघवस्य  बाणेन वालिनश्च तथा वधः रामकोपादशेषाणां रक्षसानां तथा वधः कैकेय्या वरदानेन इदं  विकृतं कृतम्
Verse 17
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् भृशचलितमतिर्महामतिः कृपणमुदाहृतवान्  गृध्रराट्
0:000:00
Speed: