🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 55

Sarga 55

23 verses

Verse 1
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्
Verse 2
स्थैर्यमात्ममनश्शौचमानृशंस्यमथाऽर्जवम् विक्रमश्चैव धैर्यं  सुग्रीवे नोपपद्यते
Verse 3
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः कथं  धर्मं जानीते येन भ्रात्रा महात्मना युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्
Verse 4
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः कथं  धर्मं जानीते येन भ्रात्रा महात्मना युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्
Verse 5
सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः विस्मृतो राघवो येन  कस्य तु कृतं स्मरेत्
Verse 6
लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा आदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत्
Verse 7
तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः
Verse 8
राज्ये पुत्रः प्रतिष्ठाप्यस्सगुणो विगुणोऽपि वा कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति
Verse 9
भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः
Verse 10
पांशुदण्डेन हि मां बन्धने नोपपादयेत् शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्
Verse 11
बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः
Verse 12
अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् इहैव प्रायमासिष्ये श्रेयो मरणमेव मे
Verse 13
अभिवादनपूर्वं हि राघवौ बलशालिनौ अभिवादनपूर्वं तु राजा कुशलमेव  वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः
Verse 14
आरोग्यपूर्वं कुशलं वाच्या माता रुमा  मे मातरं चैव मे तारामाश्वासयितुमर्हथ
Verse 15
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम्
Verse 16
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य  विवेश चाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः
Verse 17
तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः
Verse 18
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् परिवार्याङ्गदं सर्वे व्यवसन्प्रायमासितुम्
Verse 19
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः उपस्पृश्योदकं तत्र प्राङ्मुखास्समुपाविशन् दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म 
Verse 20
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः उपस्पृश्योदकं तत्र प्राङ्मुखास्समुपाविशन् दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म 
Verse 21
रामस्य वनवासं  क्षयं दशरथस्य  जनस्थानवधं चैव वधं चैव जटायुषः हरणं चैव वैदेह्या वालिनश्च वधं रणे रामकोपं  वदतां हरीणां भयमागतम्
Verse 22
रामस्य वनवासं  क्षयं दशरथस्य  जनस्थानवधं चैव वधं चैव जटायुषः हरणं चैव वैदेह्या वालिनश्च वधं रणे रामकोपं  वदतां हरीणां भयमागतम्
Verse 23
 संविशद्भिबहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः
0:000:00
Speed: