🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 54

Sarga 54

22 verses

Verse 1
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्
Verse 2
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् चतुर्दशगुणं मेने हनूमान्वालिनस्सुतम्
Verse 3
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः शुश्रूषमाणं तारस्य शक्रस्येव पुरन्दरम् भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदांवरम् अभिसन्धातुमारेभे हनूमानङ्गदं ततः
Verse 4

Verse 5

Verse 6
 चतुर्णामुपायानां तृतीयमुपवर्णयन् भेदयामास तान्सर्वान् वानरान्वाक्यसम्पदा
Verse 7
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् भीषणैर्भहुभिर्वाक्यै: कोपोपायसमन्वितैः
Verse 8
त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् दृढं धारयितुं शक्तः कपिराज्यं यथा पिता
Verse 9
नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान्विना त्वया
Verse 10
त्वां नैतेह्यनुयुञ्जेयु: प्रत्यक्षं प्रवदामि ते यथायं जाम्बवान्नीलस्सुहोत्रश्च महाकपिः  ह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः दण्डेन वा त्वया शक्यास्सुग्रीवादपकर्षितम्
Verse 11
त्वां नैतेह्यनुयुञ्जेयु: प्रत्यक्षं प्रवदामि ते यथायं जाम्बवान्नीलस्सुहोत्रश्च महाकपिः  ह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः दण्डेन वा त्वया शक्यास्सुग्रीवादपकर्षितम्
Verse 12
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः
Verse 13
यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे
Verse 14
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा लक्ष्मणो निशितैर्बाणैर्भिन्ध्यात्पत्रपुटं यथा
Verse 15
लक्ष्मणस्य  नाराचा बहवस्सन्ति तद्विधाः वज्राशनिसमस्पर्शा गिरीणामपि दारणाः
Verse 16
अवस्थाने यदैव त्वमासिष्यसि परन्तप तदैव हरयस्सर्वे त्यक्ष्यन्ति कृतनिश्चयाः 4.54.16
Verse 17
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः
Verse 18
 त्वं हीनस्सुहृद्भिश्च हितकामैश्च बन्धुभिः तृणादपि भृशोद्विग्नस्स्पन्दमानाद्भविष्यसि
Verse 19
  जातु  हिंस्युस्त्वां घोरा लक्ष्मणसायकाः अपवृत्तं जिघांसन्तो महावेगा दुरासदाः
Verse 20
  जातु  हिंस्युस्त्वा घोरा लक्ष्मणसायकाः अपावृत्तं जिघांसन्तो महावेगा दुरासदाः
Verse 21
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति
Verse 22
धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः शुचिस्सत्यप्रतिज्ञश्च  त्वां जातु जिघांसति
0:000:00
Speed: