🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 53

Sarga 53

39 verses

Verse 1
एवमुक्तश्शुभं वाक्यं तापस्या धर्मसंहितम् उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम्
Verse 2
शरणं त्वां प्रपन्ना स्म सर्वे वै धर्मचारिणीं यः कृतस्समयोऽस्माकं सुग्रीवेण महात्मना   कालो ह्यतिक्रान्तो बिले  परिवर्तताम्
Verse 3
सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः
Verse 4
त्रातुमर्हसि नस्सर्वान्सुग्रीवभयकर्शितान् महच्चकार्यमस्माभिः कर्तव्यं धर्मचारिणि तच्चापि  कृतं कार्यमस्माभिरिह वासिभिः
Verse 5
त्रातुमर्हसि नस्सर्वान्सुग्रीवभयकर्शितान् महच्चकार्यमस्माभिः कर्तव्यं धर्मचारिणि तच्चापि  कृतं कार्यमस्माभिरिह वासिभिः
Verse 6
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्
Verse 7
तपसस्तु प्रभावेन नियमोपार्जितेन  सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्
Verse 8
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः  हि निष्क्रमितुं शक्यमनिमीलितलोचनैः
Verse 9
ततस्सम्मीलितास्सर्वे सुकुमाराङ्गुलैः करैः सहसाऽपिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया
Verse 10
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा निमेषान्तरमात्रेण बिलादुत्तारितास्तया
Verse 11
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी निस्सृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत्
Verse 12
एष विन्ध्यो गिरिश्श्रीमान्नानाद्रुमलताकुलः एष प्रस्रवणश्शैलस्सागरोऽयं महोदधिः स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा
Verse 13
एष विन्ध्यो गिरिश्श्रीमान्नानाद्रुमलताकुलः एष प्रस्रवणश्शैलस्सागरोऽयं महोदधिः स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा
Verse 14
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम्
Verse 15
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः
Verse 16
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे उपविश्य महाभागाश्चिन्तामापेदिरे तदा
Verse 17
ततः पुष्पातिभाराग्रान् लताशतसमावृतान् द्रुमान्वासन्तिकान्दृष्टवा बभूवुर्भयशङ्किताः
Verse 18
ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम् नष्टसन्देशकालार्था निपेतुर्धरणीतले
Verse 19
ततस्तान्कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः वाचा मधुरयाऽभाष्य यथावदनुमान्य   तु सिंहवृषस्कन्धः पीनायतभुजः कपिः युवराजो महाप्राज्ञः अङ्गदो वाक्यमब्रवीत्
Verse 20
ततस्तान्कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः वाचा मधुरयाऽभाष्य यथावदनुमान्य   तु सिंहवृषस्कन्धः पीनायतभुजः कपिः युवराजो महाप्राज्ञः अङ्गदो वाक्यमब्रवीत्
Verse 21
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः मासः पूर्णो बिलस्थानां हरयः किं  बुद्ध्यते
Verse 22
वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः प्रस्थितास्सोऽपि चातीतः किमतः कार्यमुत्तरम्
Verse 23
भवन्तः प्रत्ययं प्राप्ताः नीतिमार्गविशारदाः हितेष्वभिरता भर्तुर्निसृष्टास्सर्वकर्मसु
Verse 24
कर्मस्वप्रतिमास्सर्वे दिक्षु विश्रुतपौरुषाः मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः
Verse 25
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः हरिराजस्य सन्देशमकृत्वा कस्सुखी भवेत्
Verse 26
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् प्रायोपवेशनं युक्तं सर्वेषां  वनौकसाम्
Verse 27
तीक्ष्णः प्रकृत्या सुग्रीवस्स्वामिभावे व्यवस्थितः  क्षमिष्यति नस्सर्वानपराधकृतो गतान्
Verse 28
अप्रवृत्तौ  सीतायाः पापमेव करिष्यति तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम् हि नः त्यक्त्वा पुत्रांश्च दारांश्च धनानि  गृहाणि 
Verse 29
धृवं नो हिंसिता राजा सर्वान्प्रतिगतानितः वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः
Verse 30
 चाहं यौवराज्येन सुग्रीवेणाभिषेचितः नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा
Verse 31
 पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः
Verse 32
किं मे सुहृदभिर्व्यसनं पश्यद्भिर्जीवितान्तरे इहैव प्रायमासिष्ये पुण्ये सागररोधसि
Verse 33
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्
Verse 34
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः अदृष्टायां तु वैदेह्यां दृष्ट्वाऽस्मांश्त समागतान् राघवप्रियकामार्थं घातयिष्यत्यसंशयम्
Verse 35
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः अदृष्टायां तु वैदेह्यां दृष्ट्वाऽस्मांश्त समागतान् राघवप्रियकामार्थं घातयिष्यत्यसंशयम्
Verse 36
 क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम्
Verse 37
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः
Verse 38
इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् इहास्ति नो नैव भयं पुरन्दरा न्न राघवाद्वानरराजतोऽपि वा
Verse 39
श्रुत्वाऽङ्गदस्यापि वचोऽनुकूल मूचुश्च सर्वे हरयः प्रतीताः यथा  हिंस्येम तथा विधान मसक्तमद्यैव विधीयतां नः
0:000:00
Speed: