🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 52

Sarga 52

19 verses

Verse 1
अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् इदं वचनमेकाग्रा तापसी धर्मचारिणी
Verse 2
वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम्
Verse 3
तस्यास्तद्वचनं श्रुत्वा हनूमान्मारुतात्मजः आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे
Verse 4
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः रामो दाशरथिश्शीमान्प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया तस्य भार्या जनस्थानाद्रावणेन हृता बलात्
Verse 5
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः रामो दाशरथिश्शीमान्प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया तस्य भार्या जनस्थानाद्रावणेन हृता बलात्
Verse 6
वीरस्तस्य सखा राज्ञस्सुग्रीवो नाम वानरः राजा वानरमुख्यानां येन प्रस्थापिता वयम्
Verse 7
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् रावणं सहितास्सर्वे राक्षसं कामरूपिणम् सीतया सह वैदेह्या मार्गध्वमिति चोदिताः
Verse 8
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् रावणं सहितास्सर्वे राक्षसं कामरूपिणम् सीतया सह वैदेह्या मार्गध्वमिति चोदिताः
Verse 9
विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् परित्रान्ता बुभुक्षिता वृक्षमूलमुपाश्रिताः
Verse 10
विवर्णवदनास्सर्वे सर्वे ध्यानपरायणाः नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे
Verse 11
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् लतापादपसञ्च्छन्नं तिमिरेण समावृतम्
Verse 12
अस्माद्धंसा जलक्लिन्नाः पक्षैस्सलिलविस्रवैः कुररास्सारसाश्चैव निष्पतन्ति पतत्रिणः
Verse 13
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः तेषामपि हि सर्वेषामनुमानमुपागतम्
Verse 14
गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ततो गाढं निपतिता गृह्य हस्तौ परस्परम्
Verse 15
इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् एतन्नः कार्यमेतेन कृत्येन वयमागताः त्वां चैवोपगतास्सर्वे परिद्यूना बुभुक्षिताः
Verse 16
आतिथ्यधर्मदत्तानि मूलानि  फलानि  अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः
Verse 17
यत्त्वया रक्षितास्सर्वे म्रियमाणा बुभुक्षया ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः
Verse 18
एवमुक्ता तु धर्मज्ञैर्वानरैस्तैस्स्वयंप्रभा प्रत्युवाच ततस्सर्वानिदं वानरपुङ्गवान्
Verse 19
सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम् चरन्त्या मम धर्मेण  कार्यमिह केनचित्
0:000:00
Speed: