Book 4 • Chapter 51
Sarga 51
19 verses
Verse 1
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्
Verse 2
इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः
Verse 3
महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः इमां स्त्वेवंविधान्भावान्विविधानद्भुतोपमान् दृष्ट्वा वयं प्रव्यथितास्सम्भ्रान्ता नष्टचेतसः
Verse 4
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः शुचीन्यभ्यवहार्याणि मूलानि च फलानि च काञ्चनानि विमानानि राजतानि गृहाणि च तपनीयगवाक्षाणि मणिजालावृतानि च
Verse 5
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः शुचीन्यभ्यवहार्याणि मूलानि च फलानि च काञ्चनानि विमानानि राजतानि गृहाणि च तपनीयगवाक्षाणि मणिजालावृतानि च
Verse 6
पुष्पिताः फलवन्तश्च पुण्यास्सुरभिगन्धिनः इमे जाम्बूनदमयाः पादपाः कस्य तेजसा काञ्चनानि च पद्मानि जातानि विमले जले कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः आत्मानमनुभावं च कस्य चैतत्तपोबलम् अजानतां न स्सर्वेषां सर्वमाख्यातुमर्हसि
Verse 7

Verse 8

Verse 9
एवमुक्ता हनुमता तापसी धर्मचारिणी प्रत्युवाच हनूमन्तं सर्वभूतहिते रता
Verse 10
मयो नाम महातेजा मायावी वानरर्षभः तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्
Verse 11
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्
Verse 12
स तु वर्षसहस्राणि तपस्तप्त्वा महावने पितामहाद्वरं लेभे सर्वमौशनसं धनम्
Verse 13
वनं विधाय बलवान्सर्वकामेश्वरस्तदा उवास सुखितः कालं कञ्चिदस्मिन्महावने
Verse 14
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् विक्रम्यैवाशनिं गृह्य जघानेत्रः पुरन्दरः
Verse 15
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् शाश्वता: कामभोगश्च गृहं चेदं हिरण्मयम्
Verse 16
दुहिता मेरुसावर्णेरहं तस्यास्स्वयंप्रभा इदं रक्षामि भवनं हेमाया वानरोत्तम
Verse 17
मम प्रियसखी हेमा नृत्तगीतविशारदा तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्
Verse 18
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्
Verse 19
इमान्यभ्यवहार्याणि मूलानि च फलानि च भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ
0:000:00
Speed: