🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 50

Sarga 50

41 verses

Verse 1
सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान्कपिः विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि 
Verse 2
सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तदा विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु 
Verse 3
आसेदुस्तस्य शैलस्य कोटिं दक्ष्णिपश्चिमाम् तेषां तत्रैव वसतां  कालो व्यत्यवर्तत
Verse 4
 हि देशो दुरन्वेषो गुहागहनवान्महान् तत्र वायुसुतस्सर्वं विचिनोति स्म पर्वतम्
Verse 5
परस्परेण हनुमा नन्योन्यस्याविदूरतः गजो गवाक्षो गवयश्शरभो गन्धमादनः मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवान्नल: अङ्गदो युवराजश्च तारश्च वनगोचरः गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्
Verse 6

Verse 7

Verse 8
क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्
Verse 9
तत्र क्रौञ्चाश्च हंसाश्च सारसाश्च विनिष्क्रमन् जलार्द्राश्चक्रवाकाश्च रक्ताङ्गा: पद्मरेणुभिः
Verse 10
ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः
Verse 11
संञ्जातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः
Verse 12
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् दुर्दर्शमतिघोरं  दुर्विगाहं  सर्वशः
Verse 13
तत: पर्वतकूटाभो हनूमान्पवनात्मजः अब्रवीद्वानरान्सर्वान्कान्तारवनकोविदः
Verse 14
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् वयं सर्वे परिश्रान्ता   पश्याम मैथिलीम्
Verse 15
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः तथा चेमे बिलद्वारि स्निग्धास्तिष्ठन्ति पादपाः
Verse 16

Verse 17
इत्युक्त्वा तद्बिलं सर्वे विविशुस्तिमिरावृतम् अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्
Verse 18
निशाम्य तस्मात् शिंहांश्च तांस्तांश्च मृगपक्ष्णिः प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्
Verse 19
 तेषां सज्जते चक्षुर्न तेजो  पराक्रमः वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते
Verse 20
ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः प्रकाशमभिरामं  ददृशुर्देशमुत्तमम्
Verse 21
ततस्तस्मिन्बिले दुर्गे नानापादपसङ्कुले अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम्
Verse 22
ते नष्टसंज्ञास्तृषितास्सम्भ्रान्तास्सलिलार्थिनः परिपेतुर्बिले तस्मिन्कञ्चित्कालमतन्द्रिताः
Verse 23
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः आलोकं ददृशुर्वीरा निराशा जीविते यदा
Verse 24
ततस्तं देशमागम्य सौम्या वितिमिरं वनम् ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् सालां स्तालांश्च पुन्नागान्ककुभान्वञ्जुलान्धवान् चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् स्तबकैः काञ्चनैश्चित्रै रक्तै: किसलयैस्तथा आपीडैश्च लताभिश्च हेमाभरणभूषितान् तरुणादित्यसङ्काशान्वैढूर्यकृतवेदिकान् विभ्राजमानान्वपुषा पादपांश्च हिरण्मयान् नीलवैढूर्यवर्णाश्च पद्मिनीः पतगावृताः महद्भि: काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः
Verse 25

Verse 26

Verse 27

Verse 28

Verse 29
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः नळिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः
Verse 30
काञ्चनानि विमानानि राजतानि तथैव  तपनीयगवाक्षाणि मुक्ताजालावृतानि  हैमराजतभौमानि वैदूर्यमणिमन्ति  ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः
Verse 31

Verse 32
पुष्पितान्फलिनो वृक्षान्प्रवाळमणिसन्निभान् काञ्चनभ्रमरांश्चैव मधूनि  समन्ततः
Verse 33
मणिकाञ्चनचित्राणि शयनान्यासनानि  महार्हाणि चयानानि ददृशुस्ते समन्ततः हैमराजतकांस्यानां भाजनानां  संञ्चयान्
Verse 34

Verse 35
अगरूणां  दिव्यानां चन्दनानां  संञ्चायान् शुचीन्यभ्यवहार्याणि मूलानि  फलानि 
Verse 36
महार्हाणि  पानानि मधूनि रसवन्ति  दिव्यानामम्बराणां  महार्हाणां  सञ्चयान् कम्बलानां  चित्राणामजिनानां  सञ्चयान्
Verse 37
तत्र तत्र  विन्यस्तान्दीप्तान्वैश्वानरप्रभान् ददृशुर्वानराश्शुभ्राञ्जातरूपस्य सञ्चयान्
Verse 38
तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः ददृशुर्वानराश्शूराः स्त्रियं काञ्चिददूरतः
Verse 39
तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम् तापसीं नियताहारां ज्वलन्तीमिव तेजसा
Verse 40
विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम्
Verse 41
ततो हनूमान्गिरिसन्निकाशः कृताज्ञलिस्तामभिवाद्य वृद्धाम् पप्रच्छ का त्वं भवनं बिलं  रत्नानि चेमानि वदस्व कस्य
0:000:00
Speed: