Book 4 • Chapter 49
Sarga 49
22 verses
Verse 1
अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत् परिश्रान्तो महाप्राज्ञस्समाश्वास्य शनैर्वचः
Verse 2
वनानि गिरयो नद्यो दुर्गाणि गहनानि च दर्यो गिरिगुहाश्चैव विचितानि समन्ततः तत्र तत्र सहास्माभिर्जानकी न च दृश्यते तद्वा रक्षो हृता येन सीता सुरसुतोपमा
Verse 3
वनानि गिरयो नद्यो दुर्गाणि गहनानि च दर्यो गिरिगुहाश्चैव विचितानि समन्ततः तत्र तत्र सहास्माभिर्जानकी न च दृश्यते तद्वा रक्षो हृता येन सीता सुरसुतोपमा
Verse 4
कालश्च नो महान्यातस्सुग्रीवश्चोग्रशासनः तस्माद्भवन्तस्सहिता विचिन्वन्तु समन्ततः
Verse 5
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्
Verse 6
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम्
Verse 7
अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः खेदं त्यक्त्वा पुनस्सर्वैर्वनमेतद्विचीयताम्
Verse 8
अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् अलं निर्वेदमागम्य न हि नो मीलनं क्षमम्
Verse 9
सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः भेतव्यं तस्य सततं रामस्य च महात्मनः
Verse 10
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते उच्यतां वा क्षमं यन्नस्सर्वेषामेव वानराः
Verse 11
अङ्गदस्य वचश्श्रुत्वा वचनं गन्धमादनः उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया
Verse 12
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह हितं चैवानुकूलं च क्रियतामस्य भाषितम्
Verse 13
पुनर्मार्गामहै शैलान्कन्दरांश्च दरीस्तथा काननानि च शून्यानि गिरिप्रस्रवणानि च
Verse 14
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः
Verse 15
ततस्समुत्थाय पुनर्वानरास्ते महाबलाः विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम्
Verse 16
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च व्यचिन्वंस्ते हरिवरास्सीता दर्शनकाङ्क्षिणः
Verse 17
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च व्यचिन्वंस्ते हरिवरास्सीता दर्शनकाङ्क्षिणः
Verse 18
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्
Verse 19
ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् अवारोहन्त हरयो वीक्षमाणास्समन्ततः
Verse 20
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः
Verse 21
ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्
Verse 22
हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः
0:000:00
Speed: