Book 4 • Chapter 48
Sarga 48
23 verses
Verse 1
सह ताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे
Verse 2
स तु दूरमुपागम्य सर्वैस्तै: कपिसत्तमैः विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान्
Verse 3
स तु दूरमुपागम्य सर्वैस्तै: कपिसत्तमैः विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान्
Verse 4
अन्वेषमाणास्ते सर्वे वानरास्सर्वतो दिशम् न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्
Verse 5
ते भक्षयन्तो मूलानि फलानि विविधानि च अन्वेषमाणा दुर्धर्षान्यवसं स्तत्र तत्र ह
Verse 6
स तु देशो दुरन्वेषो गुहागहनवान्महान् निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम्
Verse 7
त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः देशमन्यं दुराधर्षं विविशु श्चाकुतो भयाः
Verse 8
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः निस्तोयास्सरितो यत्र मूलं यत्र सुदुर्लभम्
Verse 9
न सन्ति महिषा यत्र न मृगा न च हस्तिनः शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः
Verse 10
न यत्रवृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः स्निग्धपत्रास्स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः प्रेक्षणीयास्सुगन्धाश्च भ्रमरैश्चापिवर्जिताः
Verse 11
न यत्रवृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः स्निग्धपत्रास्स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः प्रेक्षणीयास्सुगन्धाश्च भ्रमरैश्चापिवर्जिताः
Verse 12
कण्डुर्नाम महाभागस्सत्यवादी तपोधनः महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः
Verse 13
तस्य तस्मिन्वने पुत्रो बालष्षोडशवार्षिकः प्रणष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः
Verse 14
तेन धर्मात्मना शप्तं कृत्स्नं तत्रमहद्वनम् अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्
Verse 15
तस्य ते काननान्ताश्च गिरीणां कन्दराणि च प्रभवनि नदीनां च विचिन्वन्ति समाहिताः
Verse 16
तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् हर्तारं रावणं वापि सुग्रीवप्रियकारिणः
Verse 17
ते प्रविश्याऽशु तं भीमं लतागुल्मसमावृतम् दद्दृशुः क्रूरकर्माणमसुरं सुरनिर्भयम्
Verse 18
तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम् गाढं परिहितास्सर्वे दृष्ट्वा तान्पर्वतोपममान्
Verse 19
सोऽपि तान्वानरान्सर्वान् नष्टा स्स्थेत्यब्रवीद्बली अभ्यधावत सङ्कृद्धो मुष्टिमुद्यम्य संहितम्
Verse 20
तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह
Verse 21
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः
Verse 22
तेऽपि तस्मिन्निरुच्छवासे वानरा जितकाशिनः व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम्
Verse 23
विचितं तु ततः कृत्वा सर्वे ते काननं पुनः अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्
0:000:00
Speed: