Book 4 • Chapter 47
Sarga 47
14 verses
Verse 1
दर्शनार्थं तु वैदेह्यास्सर्वतः कपियूधपाः व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा
Verse 2
सरांसि सरित काक्षानाकाशं नगराणि च नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः
Verse 3
सुग्रीवेण समाख्यातास्सर्वे वानरयूथपाः प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान्
Verse 4
विचित्य दिवसं सर्वे सीताधिगमने धृताः समायान्ति स्म मेदिन्यां निशाकालेषु वानराः
Verse 5
सर्वर्तुकमान् देशेषु वानारास्सफलद्रुमान् आसाद्य रजनीं शय्यां चक्रुस्सर्वेष्वहस्सु ते
Verse 6
तदहः प्रथमं कृत्वा मासे प्रश्रवणं गताः कपिराजेन सङ्गम्य निराशाः कपियूधपाः
Verse 7
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैस्सह अदृष्ट्वा विनतस्सीतामाजगाम महाबलः
Verse 8
उत्तरां च दिशं सर्वां विचित्य स महाकपिः आगतस्सह सैन्येन वीरश्शतवलिस्तदा
Verse 9
सुषेणः पश्चिमा माशां विचित्य सह वानरैः समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे
Verse 10
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च आसीनं सह रामेण सुग्रीवमिदमब्रवीत्
Verse 11
विचिताः पर्वतास्सर्वे वनानि गहनानि च निम्नगास्सागरान्ताश्च सर्वे जनपदाश्च ये
Verse 12
गुहाश्च विचितास्सर्वास्त्वया याः परिकीर्तिताः विचिताश्च महागुल्मा लताविततसन्तताः
Verse 13
गहनेषु च देशेषु दुर्गेषु विषमेषु च सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ये चैव गहना देशा विचितास्ते पुनः पुनः
Verse 14
उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः दिशं तु यामेव गता तु सीता तामास्थितोवायुसुतो हनूमान्
0:000:00
Speed: