🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 46

Sarga 46

24 verses

Verse 1
गतेषु वानरेन्द्रेषु रामस्सुग्रीवमब्रवीत् कथं भवान्विजानीते सर्वं वै मण्डलं भुवः
Verse 2
सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ
Verse 3
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् परिकालयते वाली मलयं प्रति पर्वतम् तदा विवेश महिषो मलयस्य गुहां प्रति विवेश वाली तत्रापि मलयं तज्जिघांसया
Verse 4
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् परिकालयते वाली मलयं प्रति पर्वतम् तदा विवेश महिषो मलयस्य गुहां प्रति विवेश वाली तत्रापि मलयं तज्जिघांसया
Verse 5
ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत्   निष्क्रामते वाली तदा संवत्सरे गते4.46.5
Verse 6
ततः क्षतजवेगेन आपुपूरे तदा बिलम् तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः
Verse 7
अथाऽहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः शिला पर्वतसङ्काशा बिलद्वारि मया कृता अशक्नुव न्निष्क्रमितुं महिषो विनशेदिति
Verse 8
ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते राज्यं  सुमहत्प्राप्य तारया रुमया सह मित्रैश्च सहितस्तत्र वसामि विगतज्वरः
Verse 9
ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते राज्यं  सुमहत्प्राप्य तारया रुमया सह मित्रैश्च सहितस्तत्र वसामि विगतज्वरः
Verse 10
आजगाम ततो वाली हत्वा तं दानवर्षभम् ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः
Verse 11
 मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः परिकालयते क्रोधाद्धावन्तं सचिवैस्सह
Verse 12
ततोऽहं वालिना तेन साऽनुबद्धः प्रधावितः नदीश्च विविधाः पश्यन्वनानि नगराणि 
Verse 13
आदर्शतलसङ्काशा ततो वै पृथिवी मया अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा
Verse 14
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् पर्वतन्श्च नदी रम्यास्सरांसि विविधानि 
Verse 15
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् क्षीरोदं सागरं चैव नित्यमप्सरसालयम्
Verse 16
परिकालयमानस्तु वालिनाऽभिद्रुत स्तदा पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो
Verse 17
पुनरावर्तमानस्तु वालिनाऽभिद्रुतोद्रुतम् दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् विन्ध्यपादपसङ्कीर्णां चन्दनद्रुमशोभिताम्
Verse 18
द्रुमशैलांस्ततः पश्यन्भूयो दक्षिणतोऽपराम् पश्चिमां  दिशं प्राप्ता वालिना समभिद्रुतः
Verse 19
सम्पश्यन्विविधान्देशानस्तं  गिरिसत्तमम् प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः
Verse 20
हिमवन्तं  मेरुं  समुद्रं  तथोत्तरम् यदा  विन्दं शरणं वालिना समभिद्रुतः तदा मां बुद्धिसम्पन्नो हनूमान्वाक्यमब्रवीत्
Verse 21
इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् तत्र वासस्सुखोऽस्माकं निरुद्विग्नो भविष्यति
Verse 22
इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् तत्र वासस्सुखोऽस्माकं निरुद्विग्नो भविष्यति
Verse 23
ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज  विवेश तदा वाली मतङ्गस्य भयात्तदा
Verse 24
एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः
0:000:00
Speed: