Book 4 • Chapter 45
Sarga 45
15 verses
Verse 1
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः समस्तानब्रवीद्भूयो रामकार्यर्थसिद्धये एवमेतद्विचेतव्यं यन्मया परिकीर्तितम्
Verse 2
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे
Verse 3
रामः प्रस्रवणे तस्मिन्यवसत्सहलक्ष्मणः प्रतीक्षमाणस्तं मासं यस्सीताधिगमे कृतः
Verse 4
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् प्रतस्थे सहसा वीरो हरिश्शतवलिस्तदा
Verse 5
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः ताराङ्गदादिसहितः प्लवङ्गो मारुतात्मजः अगत्याचरितामाशां दक्षिणां हरियूथपः
Verse 6
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः ताराङ्गदादिसहितः प्लवङ्गो मारुतात्मजः अगत्याचरितामाशां दक्षिणां हरियूथपः
Verse 7
पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्
Verse 8
ततस्सर्वा दिशो राजा चोदयित्वा यथातथम् कपिसेनापतीन्मुख्यान्मुमोद सुखितस्सुखम्
Verse 9
एवं सम्बोधितास्सर्वे राज्ञा वानरयूथपाः स्वां स्वां दिशमभिप्रत्त्य त्वरिता सम्प्रतस्थिरे
Verse 10
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः
Verse 11
एवं सम्बोदितास्सर्वे राज्ञा वानरयूथपाः आनयिष्यामहे सीतां हनिष्यामश्च रावणम्
Verse 12
अहमेको हनिष्यामि रावणं प्राप्तमाहवे ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्
Verse 13
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति एक एवाहरिष्यामि पातालादपि जानकीम्
Verse 14
वधिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन् धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्
Verse 15
अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः शतं योजनसङ्ख्यायाश्शतं समधिकं ह्यहम्
0:000:00
Speed: