🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 44

Sarga 44

17 verses

Verse 1
विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्  हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने
Verse 2
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् सुग्रीवः परमप्रीतः प्रभु स्सर्ववनौकसाम्
Verse 3
 भूमौ नान्तरिक्षे वा नाम्बरे नामरालये नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव
Verse 4
सासुरास्सहगन्धर्वास्सनागनरदेवताः विदिता स्सर्वलोकास्ते ससागरधराधराः
Verse 5
गतिर्वेगश्च तेजश्च लाघवं  महाकपे पितुस्ते सदृशं वीर मारुतस्य महौजसः
Verse 6
तेजसा वापि ते भूतं  समं भुवि  विद्यते तद्यथा लभ्यते सीता तत्त्वमेवोपपादय
Verse 7
त्वय्येव हनुम न्नस्ति बलं बुद्धिः पराक्रमः देशकालानुवृत्तिश्च नयश्च नयपण्डित
Verse 8
ततः कार्यसमासङ्गमवगम्य हनूमति विदित्वा हनुमन्तं  चिन्तयामास राघवः
Verse 9
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः निश्चितार्थकरश्चापि हनूमान्कार्यसाधने
Verse 10
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः
Verse 11
तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः
Verse 12
ददौ तस्य ततः प्रीतस्स्वनामाङ्कोपशोभितम् अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः
Verse 13
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति
Verse 14
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः सुग्रीवस्य  सन्देशस्सिद्धिं कथयतीव मे
Verse 15
 तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः
Verse 16
 तत्प्रकर्षन् हरीणां महद्बलं बभूव वीरः पवनात्मजः कपिः गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः
Verse 17
अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः पवनसुत यथाऽभिगम्यते सा जनकसुता हनुमं स्तथा कुरुष्व
0:000:00
Speed: