Book 4 • Chapter 43
Sarga 43
64 verses
Verse 1
ततस्सन्दिश्य सुग्रीवश्श्वशुरं पश्चिमां दिशम् वीरं शतवलिं नाम वानरं वानरर्षभः
Verse 2
उवाच राजा धर्मज्ञस्सर्ववानरसत्तमम् वाक्यमात्म हितं चैव रामस्य च हितं तथा
Verse 3
वृतश्शतसहस्रेण त्वद्विधानां वनौकसाम् वैवस्वतसुतैस्सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः
Verse 4
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्
Verse 5
अस्मिन्कार्येविनिर्वृत्ते कृते दाशरथेः प्रिये ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः
Verse 6
कृतं हि प्रियमस्माकं राघवेण महात्मना तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्
Verse 7
अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः
Verse 8
एतां बुद्धिमवस्थाय दृश्यते जानकी यथा तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः
Verse 9
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः अस्मासु चागत: प्रीती रामः परपुरञ्जयः
Verse 10
इमानि वनदुर्गाणि नद्यश्शैलान्तराणि च भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा
Verse 11
तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च प्रस्थलान्भरतांश्चैव कुरूंश्च सह मद्रकैः काम्बोजान्यवनां श्चैव शकानारट्टकानपि बाह्लीकानृषिकां श्चैव पौरवानथ टङ्कणान् चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः अन्विष्यदरदांश्चैव हिमवन्तं तथैव च
Verse 12

Verse 13

Verse 14
लोध्रपद्मकषण्डेषु देवदारुवनेषु च रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः
Verse 15
ततस्सोमाश्रमं गत्वा देवगन्धर्वसेवितम् कालं नाम महासानुं पर्वतं तु गमिष्यथ
Verse 16
महत्सु तस्य शैलस्य निर्दरेषु गुहासु च विचिनुध्वं महाभागां रामपत्नींततस्ततः
Verse 17
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ततस्सुदर्शनं नाम गन्तुमर्हथ पर्वतम्
Verse 18
ततो देवसखो नाम पर्वतः पतगालयः नानापक्षिगणाकीर्णो विविधद्रुमभूषितः
Verse 19
तस्य काननषण्डेषु निर्घरेषु गुहासु च रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः
Verse 20
तमतिक्रम्य चाकाशं सर्वतश्शतयोजनम् अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्
Verse 21
तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ
Verse 22
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा
Verse 23
विशाला नलिनी यत्र प्रभूतकमलोत्पला हंसकारण्डवाकीर्णाप्सरोगणसेविता
Verse 24
तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः धनदो रमते श्रीमान्गुह्यकैस्सह यक्षराट्
Verse 25
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
Verse 26
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् अप्रमत्तै: प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्
Verse 27
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः देवैरप्यर्चिता स्सम्यग्देवरूपा महर्षयः
Verse 28
क्रौञ्चस्य तु गुहाश्चान्या स्सानूनिशिखराणि च निर्दराश्च नितम्बाश्च विचेतव्या स्ततस्ततः कौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः
Verse 29
अवृक्षं कामशैलं च मानसं विहगालयम् न गतिस्तत्र भूतानां देवदानव रक्षसाम्
Verse 30
स च सर्वैर्विचेतव्यस्ससानुप्रस्थभूधरः क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः
Verse 31
मयस्य भवनं यत्र दानवस्य स्वयं कृतम् मैनाकस्तु विचेतव्य स्ससानुप्रस्थकन्दरः स्त्रीणामश्वमुखीनां तु निकेतास्तत्र तत्र तु
Verse 32
मयस्य भवनं यत्र दानवस्य स्वयं कृतम् मैनाकस्तु विचेतव्य स्ससानुप्रस्थकन्दरः स्त्रीणामश्वमुखीनां तु निकेतास्तत्र तत्र तु
Verse 33
तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः
Verse 34
वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः
Verse 35
हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः
Verse 36
औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः गजः पर्येति तं देशं सदा सह करेणुभिः
Verse 37
तत्सरस्समतिक्रम्य नष्टचन्द्रदिवाकरम् अनक्षत्रगणं व्योम निष्पयोदमनादितम्
Verse 38
गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते विश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैः स्वयंप्रभैः
Verse 39
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च
Verse 40
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ततः काञ्चनपद्माभिः पद्भिनीभिः कृतोदकाः नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः
Verse 41
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ततः काञ्चनपद्माभिः पद्भिनीभिः कृतोदकाः नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः
Verse 42
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः महार्हमणिरत्नैश्च काञ्चनप्रभकेसरैः निलोत्पलवनैश्चित्रै स्स देश स्सर्वतो वृतः निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः
Verse 43
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः महार्हमणिरत्नैश्च काञ्चनप्रभकेसरैः निलोत्पलवनैश्चित्रै स्स देश स्सर्वतो वृतः निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः
Verse 44
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः जातरूपमयैश्चापि हुताशनसमप्रभैः
Verse 45
नित्यपुष्पफलास्तत्र नगाः पत्त्ररथाकुलाः दिव्यगन्धरसस्पर्शाः सर्वान्कामान् स्रवन्ति च नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः
Verse 46
नित्यपुष्पफलास्तत्र नगाः पत्त्ररथाकुलाः दिव्यगन्धरसस्पर्शाः सर्वान्कामान् स्रवन्ति च नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः
Verse 47
मुक्ता वैढूर्यचित्राणि भूषणानि तथैव च स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च सर्वर्तुसुख सेव्यानि फलन्त्यन्ये नगोत्तमाः महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः
Verse 48
मुक्ता वैढूर्यचित्राणि भूषणानि तथैव च स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च सर्वर्तुसुख सेव्यानि फलन्त्यन्ये नगोत्तमाः महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः
Verse 49
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः
Verse 50
पानानि च महार्हाणि भक्ष्याणि विविधानि च स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः
Verse 51
गन्धर्वाः किन्नरास्सिद्धा नागा विद्याधरास्तथा रमन्ते सततं स्तत्र नारीभिर्भास्करप्रभाः
Verse 52
सर्वे सुकृतकर्माण स्सर्वे रतिपरायणाः सर्वे कामार्थसहिता वसन्ति सहयोषितः
Verse 53
गीतवादित्रनिर्घोष स्सोत्कृष्टहसितस्वनः श्रूयते सततं तत्र सर्वभूतमनोहरः
Verse 54
तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः
Verse 55
समतिक्रम्य तं देशमुत्तरः पयसां निधिः तत्र सोमगिरिर्नाम मध्ये हेममयो महान्
Verse 56
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः
Verse 57
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता
Verse 58
भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः
Verse 59
न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः अन्येषामपि भूतानां नातिक्रामति वै गतिः
Verse 60
स हि सोमगिरिर्नाम देवानामपि दुर्गमः तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ
Verse 61
एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः अभास्करममर्यादं न जानीमस्ततः परम्
Verse 62
सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः
Verse 63
ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा
Verse 64
ततः कृतार्थाः सहितास्सबान्धवाः मयाऽर्चितास्सर्वगुणैर्मनोरमैः चरिष्यथोर्वीं प्रति शान्तशत्रव स्सहप्रिया भूतधराः प्लवङ्गमाः
0:000:00
Speed: