Book 4 • Chapter 42
Sarga 42
55 verses
Verse 1
अथ प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम्
Verse 2
तारायाः पितरं राजा श्वशुरं भीमविक्रमम् अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च
Verse 3
मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् वृतं कपिवरै श्शूरैर्महेन्द्रसदृशद्युतिम् बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् मरीचिपुत्रान्मारीचानर्चिर्मालान्महाबलान् ऋषिपुत्रांश्चतांत्सर्वान्प्रतीचीमादिशद्दिशम्
Verse 4

Verse 5
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः सुषेणप्रमुखा यूयं वैदेहीं परिमार्गतः
Verse 6
सुराष्ट्रान्सहबाह्लीकान् श्चन्द्रचित्रांस्तथैव च स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः
Verse 7
सुराष्ट्रान्सहबाह्लीकान् श्चन्द्रचित्रांस्तथैव च स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः
Verse 8
प्रत्यक्स्रोतोगमाश्चैव नद्यश्शीतजलाश्शिवाः तापसानामरण्यानि कान्तारा गिरयश्च ये तत्रस्थलीं मरुप्रायामत्युच्चशिरसश्शिलाः गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ तिमिनक्रायुतजलमक्षोभ्यमथ वानराः
Verse 9

Verse 10

Verse 11
ततः केतकषण्डेषु तमालगहनेषु च कपयो विहरिष्यन्ति नारिकेलवनेषु च
Verse 12
तत्र सीतां च मार्गध्वं निलयं रावणस्य च वेलातलनिविष्टेषु पर्वतेषु वनेषु च मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् राष्ट्राणि च विशालानि पत्तनानि ततस्ततः
Verse 13
तत्र सीतां च मार्गध्वं निलयं रावणस्य च वेलातलनिविष्टेषु पर्वतेषु वनेषु च मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् राष्ट्राणि च विशालानि पत्तनानि ततस्ततः
Verse 14
तत्र सीतां च मार्गध्वं निलयं रावणस्य च वेलातलनिविष्टेषु पर्वतेषु वनेषु च मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् राष्ट्राणि च विशालानि पत्तनानि ततस्ततः
Verse 15
सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः
Verse 16
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते
Verse 17
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिस्वनाः विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः
Verse 18
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः
Verse 19
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः
Verse 20
कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तपस्विनाम् वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्
Verse 21
पावकार्चिः प्रतीकाशास्समवेतास्सहस्रशः नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः
Verse 22
नादेयं च फलं तस्माद्देशात्किञ्चित् प्लवङ्गमैः दुरासदा हि ते वीरा स्सत्त्ववन्तो महाबलाः फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः
Verse 23
नादेयं च फलं तस्माद्देशात्किञ्चित् प्लवङ्गमैः दुरासदा हि ते वीरा स्सत्त्ववन्तो महाबलाः फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः
Verse 24
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी न हि तेभ्यो भयं किञ्चित्कपित्वमनुवर्तताम्
Verse 25
तत्र वैढूर्यवर्णाभो वज्रसंस्थानसंस्थितः नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः श्रीमान्समुदितस्तत्र योजनानां शतं समम् गुहास्तत्र विचेतव्या प्रयत्नेन प्लवङ्गमाः
Verse 26
तत्र वैढूर्यवर्णाभो वज्रसंस्थानसंस्थितः नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः श्रीमान्समुदितस्तत्र योजनानां शतं समम् गुहास्तत्र विचेतव्या प्रयत्नेन प्लवङ्गमाः
Verse 27
चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा
Verse 28
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः
Verse 29
तस्य सानुषु चित्रेषु विशालासु गुहासु च रावण स्सह वैदेह्या मार्गितव्यस्तत स्ततः
Verse 30
योजनानां चतुष्षष्टिर्वराहो नाम पर्वतः सुवर्णशृङ्गस्सुश्रीमा नगाधे वरुणालये
Verse 31
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् यस्मिन्वसति दुष्टात्मा नरको नाम दानवः
Verse 32
तत्र सानुषु चित्रेषु विशालासु गुहासु च रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः
Verse 33
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः पर्वत स्सर्वसौवर्णो धाराप्रस्रवणायुतः
Verse 34
तं गजाश्च वराहाश्च सिंह व्याघ्राश्च सर्वतः अभिगर्जन्ति सततं तेन शब्देन दर्पिताः
Verse 35
यस्मिन्हरिहय्शीमान्महेन्द्रः पाकशासनः अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः
Verse 36
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् षष्टि र्गिरिसहस्राणि काञ्चनानि गमिष्यथ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः जातरूपमयैर्वृक्षै शोभितानि सुपुष्पितैः
Verse 37
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् षष्टि र्गिरिसहस्राणि काञ्चनानि गमिष्यथ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः जातरूपमयैर्वृक्षै शोभितानि सुपुष्पितैः
Verse 38
तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा
Verse 39
तेनैव मुक्तश्शैलेन्द्रस्सर्व एव त्वदाश्रयाः मत्प्रसादाद्भविष्यन्ति दिवा रात्रं च काञ्चनाः त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः
Verse 40
तेनैव मुक्तश्शैलेन्द्रस्सर्व एव त्वदाश्रयाः मत्प्रसादाद्भविष्यन्ति दिवा रात्रं च काञ्चनाः त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः
Verse 41
विश्वे देवाश्च मरूतो वसवश्च दिवौकसः आगम्य पश्चिमां सन्ध्यां मेरुमुत्तमपर्वतम् आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः अदृश्यस्सर्वभूतानामस्तं गच्छतिपर्वतम्
Verse 42
विश्वे देवाश्च मरूतो वसवश्च दिवौकसः आगम्य पश्चिमां सन्ध्यां मेरुमुत्तमपर्वतम् आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः अदृश्यस्सर्वभूतानामस्तं गच्छतिपर्वतम्
Verse 43
योजनानां सहस्राणि दश तानि दिवाकरः मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्
Verse 44
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम् प्रासादगणसम्बाधं विहितं विश्वकर्मणा
Verse 45
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः निकेतं पाशहस्तस्य वरुणस्य महात्मनः
Verse 46
अन्तरा मेरुमस्तं च तालो दशशिरा महान् जातरूपमय्शीमान्भ्राजते चित्रवेदिकः
Verse 47
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च रावणस्सह वैदेह्या मार्गितव्यस्तत स्ततः
Verse 48
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः
Verse 49
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति
Verse 50
एताव ज्जीवलोकस्य भास्करो रजनीक्ष्ये कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्
Verse 51
एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः अभास्करममर्यादं न जानीमस्ततः परम्
Verse 52
अधिगम्य तु वैदेहीं निलयं रावणस्य च अस्त पर्वतमासाद्य पूर्णे मासे निवर्तत
Verse 53
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम सहैव शूरो युष्माभिश्श्वशुरो मे गमिष्यति
Verse 54
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः गुरुरेष महाबाहुश्श्वशुरो मे महाबलः
Verse 55
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व कर्मसु प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्
0:000:00
Speed: