Book 4 • Chapter 41
Sarga 41
50 verses
Verse 1
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् दक्षिणां प्रेषयामास वानरानभिलक्षितान्
Verse 2
नील मग्निसुतं चैव हनुमन्तं च वानरम् पितामहसुतं चैव जाम्बवन्तं महाबलम् सुहोत्रं च शरारिं च शरगुल्मं तथैव च गजं गवाक्षं गवयं सुषेणमृषभं तथा मैन्दं च द्विविदं चैव विजयं गन्धमादनम् उल्कामुखमसङ्गं च हुताशनसुतावुभौ अङ्गदप्रमुखान्वीरान्वीर: कपिगणेश्वरः वेगविक्रमसम्पन्नान्सन्दिदेश विशेषवित्
Verse 3

Verse 4

Verse 5

Verse 6
तेषामग्रेसरं चैव महाबलमथाङ्गदम् विधाय हरिवीराणामादिशद्दक्षिणां दिशम्
Verse 7
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः कपीशः कपिमुख्यानां स तेषां तानुदाहरत्
Verse 8
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् नर्मदां च नदीं रम्यां महोरगनिषेविताम् ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् वरदां च महाभागां महोरगनिषेविताम् मेखलामुत्कलां चैव दशार्णनगराण्यपि आश्ववन्तीमवन्तीं च सर्वामेवानुपश्यत
Verse 9

Verse 10

Verse 11
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि तथा वङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहाम् नदीं गोदावरीं चैव सर्वमेवानुपश्यत तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यांत्स केरलान्
Verse 12

Verse 13
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः विचित्रशिखर श्श्रीमांश्चित्रपुष्पितकाननः सचन्दनवनोद्देशो मार्गितव्यो महागिरिः
Verse 14

Verse 15
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः
Verse 16
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् द्रक्ष्यथाऽदित्यसङ्काशमगस्त्यमृषिसत्तमम्
Verse 17
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्
Verse 18
सा चन्दनवनैर्दिव्यै प्रच्छन्ना द्वीपशालिनी कान्तेव युवति: कान्तां समुद्रमवगाहते
Verse 19
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः
Verse 20
ततस्समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् अगस्त्येनान्तरे तत्र सागरे विनिवेशितः चित्रनानानगः श्रीमान्महेन्द्र: पर्वतोत्तमः जातरूपमयः श्रीमानवगाढो महार्णवम्
Verse 21

Verse 22
नानाविधैर्नगै स्सर्वैलताभिश्चोपशोभितम् देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् सिद्धचारणसङ्घैश्च प्रकीर्णं समनोरमम् तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु
Verse 23

Verse 24
द्वीपस्तस्यापरे पारे शतयोजनमायतः अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः
Verse 25
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः राक्षसाधिपतेर्वासस्सहस्राक्षसमद्युतेः
Verse 26
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी अङ्गारकेति विख्याता छायामाकृष्य भोजिनी
Verse 27
एवं निस्संशयान्कृत्वा संशयान्नष्टसंशयाः मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः
Verse 28
तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने गिरिः पुष्पितको नाम सिद्धचारणसेवितः
Verse 29
चन्द्रसूर्यांशुसङ्काशस्सागराम्बुसमावृतः भ्राजते विपुलैश्शृङ्गैरम्बरं विलिखन्निव
Verse 30
तस्यैकं काञ्चनं शृङ्गं सेवतेऽयं दिवाकरः श्वेतं राजतमेकं च सेवतेऽयं निशाकरः न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः
Verse 31

Verse 32
प्रणम्य शिरसा शैलं तं विमार्गत वानराः तमतिक्रम्य दुर्धर्ष स्सूर्यवान्नाम पर्वतः अध्वना दुर्विगाहेन योजनानि चतुर्दश
Verse 33
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः 4.41.33 सर्वकामफलैर्वृक्षै स्सर्वकालमनोहरैः
Verse 34
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च मधूनि पीत्वा मुख्यानि परं गच्छत वानराः
Verse 35
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा
Verse 36
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्
Verse 37
तत्र भोगवती नाम सर्पाणामालयः पुरी विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता रक्षिता पन्नगैर्घोरैस्तीक्ष्णदष्ट्रैरैर्महाविषैः सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः
Verse 38

Verse 39
निर्याय मार्गितव्या च सा च भोगवती पुरी तत्र चानन्तरा देशा ये केचन सुसम्वृताः
Verse 40
तं च देशमतिक्रम्य महानृषभसंस्थितः सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः
Verse 41
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्
Verse 42
न तु तच्चन्दनं दृष्टवा स्प्रष्टव्यं च कदाचन रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्
Verse 43
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः शैलूषो ग्रामणी श्शिग्रु श्शुभ्रो बभ्रुस्तथैव च रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्
Verse 44

Verse 45
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ततः परं न वस्सेव्यः पितृलोक स्सुदारुणः
Verse 46
राजधानी यमस्यैषा कष्टेन तमसा वृता एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः
Verse 47
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते गतिं विदित्वा वैदेह्या स्सन्निवर्तितुमर्हथ
Verse 48
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति मत्तुल्यविभवो भोगै स्सुखं स विहरिष्यति
Verse 49
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः कृतापराधो बहुशो मम बन्धुर्भविष्यति
Verse 50
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम्
0:000:00
Speed: