Book 4 • Chapter 40
Sarga 40
70 verses
Verse 1
अथ राजा समृद्धार्थस्सुग्रीवः प्लवगेश्वरः उवाच नरशार्दूलं रामं परबलार्दनम्
Verse 2
आगता विनिविष्टाश्च बलिनः कामरूपिणः वानरा वारणेन्द्रभा: ये मद्विषयवासिनः
Verse 3
त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः आगता वानरा घोरा दैत्यदानवसन्निभाः
Verse 4
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः पृथिव्यम्बुचरा राम नानानगनिवासिनः कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः
Verse 5

Verse 6
निदेशवर्तिनस्सर्वे सर्वे गुरुहिते रताः अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम
Verse 7
त इमे बहुसाहस्रैरनीकै भीमविक्रमैः आगता वानरा घोरा दैत्यदानवसन्निभा:
Verse 8
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि
Verse 9
काममेषामिदं कार्यं विदितं मम तत्त्वतः तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि
Verse 10
इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्
Verse 11
ज्ञायतां मम वैदेही यदि जीवति वा न वा स च देशो महाप्राज्ञ यस्मिन्वसति रावणः
Verse 12
अधिगम्य तु वैदेहीं निलयं रावणस्य च प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया
Verse 13
नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर
Verse 14
त्वमेवाऽज्ञापय विभो मम कार्यविनिश्चयम् त्वं हि जानासि यत्कार्यं मम वीर न संशयः
Verse 15
सुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् भवानस्मध्दिते युक्त स्सुकृतार्थोऽर्थवित्तमः
Verse 16
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः
Verse 17
सोमसूर्यात्मजै स्सार्धं वानरैर्वानरोत्तम देशकालनयैर्युक्तः कार्या कार्यविनिश्चये वृतश्शतसहश्रेण वानराणां तरस्विनाम् अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्
Verse 18

Verse 19
तत्र सीतां च वैदेहीं निलयं रावणस्य च मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च
Verse 20
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् महीं कालमहीं चैव शैलकाननशोभिताम् ब्रह्ममालान्विदेहांश्च मालवान्कालिकोसलान् मागधांश्च महाग्रामान्पुण्ड्रांन्वङ्गां स्तथैव च पत्तनं कोशकाराणां भूमिं च रजताकराम्
Verse 21

Verse 22

Verse 23

Verse 24
सर्वमेतद्विचेतव्यं मृगयद्भिस्ततस्ततः रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्
Verse 25
समुद्रमवगाढांश्च पर्वतान्पत्तनानि च मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः घोरलोहमुखाश्चैव जवनाश्चैकपादकाः अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः किराताः कर्ण चूडाश्च हेमाङ्गा: प्रियदर्शनाः आममीनाशनास्तत्र किराता द्वीपवासिनः अन्तर्जलचरा घोरा नरव्याघ्रा इति शृताः एतेषामाश्रयास्सर्वे विचेयाः कावनौकसः गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च
Verse 26

Verse 27

Verse 28

Verse 29

Verse 30
रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः दिवं स्पृशति शृङ्गेण देवदानवसेवितः एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च मार्गध्वं सहितास्सर्वे रामपत्नीं यशस्विनीम्
Verse 31

Verse 32

Verse 33
ततो रक्तजलं शोणमगाधं शीघ्रगामिनम् गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः
Verse 34

Verse 35
तत स्समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम्
Verse 36
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः
Verse 37
तं कालमेघप्रतिमं महोरगनिषेवितम् अभिगम्य महानादं तीर्थेनैव महोदधिम् ततो रक्तजलं भीमं लोहितं नाम सागरम् गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्
Verse 38

Verse 39
गृहं च वैनतेयस्य नानारत्नविभूषितम् तत्र कैलाससङ्काशं विहितं विश्वकर्मणा
Verse 40
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः
Verse 41
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः
Verse 42
ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम् गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः
Verse 43
तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः दिव्यगन्धैः कुसुमितै राजितैश्च नगैर्वृतः सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः नाम्ना सुदर्शनं नाम राजहंसैस्समाकुलम्
Verse 44

Verse 45
विबुधाश्चारणा यक्षाः किन्नराश्चाप्सरोगणाः हृष्टास्समभिगच्छन्ति नलिनीं तां रिरंसवः
Verse 46
क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः जलोदं सागरं शीघ्रं सर्वभूतभयावहम्
Verse 47
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् अस्याहुस्तन्महावेगमोदनं सचराचरम्
Verse 48
तत्र विक्रोशतां नादो भूतानां सागरौकसाम् श्रूयते च समर्थानां दृष्ट्वा तद्बडबामुखम्
Verse 49
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश जातरूपशिलो नाम महान्कनकपर्वतः
Verse 50
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् सहस्रशिरसं देवमनन्तं नीलवाससम्
Verse 51

Verse 52
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः स्थापितः पर्वतस्याग्रे विराजति सवेदिकः
Verse 53
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ततः परं हेममय श्श्रीमानुदयपर्वतः तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता जातरूपमयी दिव्या विराजति सवेदिका
Verse 54

Verse 55
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः जातरूपमयैर्दिव्यै श्शोभते सूर्यसन्निभैः
Verse 56
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्
Verse 57
तत्रपूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः
Verse 58
त्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्
Verse 59
तत्र वैखानसा नाम वालखिल्या महर्षयः प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः
Verse 60
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते यस्मिं स्तेजश्च चक्षुश्च सर्वप्राणभृतामपि
Verse 61
शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः
Verse 62
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते
Verse 63
पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च सूर्यस्योदयनं चैव पर्वा ह्येषा दिगुच्यते
Verse 64
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः
Verse 65
ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता
Verse 66
शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ये च नोक्ता मया देशा विचेया तेषु जानकी
Verse 67
एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः अभास्करममर्यादं न जानीमस्ततः परम्
Verse 68
अधिगम्य तु वैदेहीं निलयं रावणस्य च मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्
Verse 69
ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम सिद्धार्थास्सन्निवर्तध्वमधिगम्य तु मैथिलीम्
Verse 70
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्तास्सुखिनो भविष्यथ
0:000:00
Speed: