🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 39

Sarga 39

44 verses

Verse 1
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्
Verse 2
यदिन्द्रो वर्षते वर्षं  तच्चित्रं भवेत्क्वचित् आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् त्वद्विधो वाऽपि मित्राणां प्रतिकुर्यात्परन्तप
Verse 3
यदिन्द्रो वर्षते वर्षं  तच्चित्रं भवेत्क्वचित् आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् त्वद्विधो वाऽपि मित्राणां प्रतिकुर्यात्परन्तप
Verse 4
एवं त्वयि  तच्चित्रं भवेद्यत्सौम्य शोभनम् जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्
Verse 5
त्वत्सनाथ: सखे सङ्ख्ये जेताऽस्मि सकलानरीन् त्वमेव मे सुहृतन्मित्रं साहाय्यं कर्तुमर्हसि
Verse 6
जहारात्मविनाशाय वैदेहीं राक्षसाधमः वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्
Verse 7
 चिरात्तं हनिष्यामि रावणं निशितैश्शरैः पौलोम्याः पितरं दृप्तं शतक्रतुरिवाऽहवे
Verse 8
एतस्मिन्नन्तरे चैव रजस्समभिवर्तत उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम्
Verse 9
दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छता चचाल  मही सर्वा सशैलवनकानना
Verse 10
ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः कोटीशतपरीवारैः कामरूपिभिरावृता नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः
Verse 11

Verse 12

Verse 13

Verse 14
कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा वीरश्शतवलिर्नाम वानरः प्रत्यदृश्यत
Verse 15
ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत
Verse 16
तथाऽपरेण कोटीनां सहस्रेण समन्वितः पिता रुमाया सम्प्राप्तस्सुग्रीवश्वशुरो विभुः
Verse 17
पद्मकेसरसङ्काशस्तरुणार्कनिभाननः बुद्धिमान्वानरश्रेष्ठस्सर्ववानरसत्तमः अनेकैर्बहुसाहस्रैर्वानराणां समन्वितः पिता हनुमतश्रशीमान्केसरी प्रत्यदृश्यत
Verse 18
पद्मकेसरसङ्काशस्तरुणार्कनिभाननः बुद्धिमान्वानरश्रेष्ठस्सर्ववानरसत्तमः अनेकैर्बहुसाहस्रैर्वानराणां समन्वितः पिता हनुमतश्रशीमान्केसरी प्रत्यदृश्यत
Verse 19
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः वृतः कोटिसहस्रेण वानराणामदृश्यत
Verse 20
ऋक्षाणां भीमवेगानां धूम्रश्शत्रुनिबर्हणः वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत
Verse 21
महाचलनिभैर्घोरै: पनसो नाम यूथपः आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः
Verse 22
नीलाञ्जनचयाकारो नीलो नामाऽथ यूथपः अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः
Verse 23
ततः काञ्चनशैलाभो गवयो नाम यूथपः आजगाम महावीर्यः पञ्चभि: कोटिभिर्वृतः
Verse 24
दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः
Verse 25
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ कोटिकोटिसहस्रेण वानराणामदृश्यताम्
Verse 26
गजश्च बलवान् वीर: कोटिभिस्तिसृभिर्वृतः आजगाम महातेजा सुग्रीवस्य समीपतः
Verse 27
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः
Verse 28
रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् आययौ बलवांस्तूर्णं कोटीशतसमावृतः
Verse 29
ततः कोटिसहस्राणां सहस्रेण शतेन  पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः
Verse 30
ततः पद्मसहस्रेण वृतश्शङ्कुशतेन  युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः
Verse 31
ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत
Verse 32
इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत एकादशानां कोटीनामीश्वरस्तैस्समावृतः
Verse 33
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः अयुतेनावृतश्चैव सहस्रेण शतेन 
Verse 34
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली
Verse 35
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत
Verse 36
नलश्चापि महावीर्यस्संवृतो द्रुमवासिभिः कोटीशतेन सम्प्राप्तस्सहस्रेण शतेन 
Verse 37
ततो दधिमुखश्रीमान्कोटिभिर्दशभिर्वृतः सम्प्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः
Verse 38
शरभः कुमुदो वह्निर्वानरो रंह एव  एते चान्ये  बहवो वानराः कामरूपिणः आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि  यूथपा स्समनुप्राप्ता स्तेषां संख्या  विद्यते आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः
Verse 39
शरभः कुमुदो वह्निर्वानरो रंह एव  एते चान्ये  बहवो वानराः कामरूपिणः आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि  यूथपा स्समनुप्राप्ता स्तेषां संख्या  विद्यते आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः
Verse 40
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव
Verse 41
कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्
Verse 42
अपरे वानरश्रेष्ठास्सङ्गम्य  यथोचितम् सुग्रीवेण समागम्य स्थिताः प्राञ्जलय स्तदा
Verse 43
सुग्रीवस्त्वरितो रामे सर्वांस्तां वानररर्षभान् निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्
Verse 44
यथासुखं पर्वतनिझरेषु वनेषु सर्वेषु  वानरेन्द्राः निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे
0:000:00
Speed: