Book 4 • Chapter 38
Sarga 38
34 verses
Verse 1
प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत्
Verse 2
विसर्जयित्वा स हरीन् शूरांस्तान्कृतकर्मणः मेने कृतार्थमात्मानं राघवं च महाबलम्
Verse 3
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते
Verse 4
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह एवं भवतु गच्छाव: स्थेयं त्वच्छासने मया
Verse 5
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह एवं भवतु गच्छाव: स्थेयं त्वच्छासने मया
Verse 6
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् विसर्जयामास तदा तारामन्याश्च योषितः
Verse 7
एतेत्युच्चैर्हरिवरान्सुग्रीवस्समुदाहरत् तस्य तद्वचनं श्रुत्वा हरयश्शीघ्रमाययुः बद्धाञ्जलिपुटास्सर्वे ये स्युः स्त्रीदर्शनक्षमाः
Verse 8
तानुवाच ततः प्राप्तान्राजाऽर्कसदृशप्रभः उपस्थापयत क्षिप्रं शिबिकां मम वानराः
Verse 9
श्रुत्वा तु वचनं तस्य हरयश्शीघ्रविक्रमाः समुपस्थापयामासुश्शिबिकां प्रियदर्शनाम्
Verse 10
तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः लक्ष्मणाऽरुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्
Verse 11
इत्युक्त्वा काञ्चनं यानं सुग्रीवस्सूर्यसन्निभम् बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः
Verse 12
पाण्डुरेणातपत्रेण म्रियमाणेन मूर्धनि शुक्लैश्च वालव्यजनैर्धूयमानैस्समन्ततः शङ्खभेरीनिनादैश्च हरिभिश्चाभिवन्दितः निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्
Verse 13
पाण्डुरेणातपत्रेण म्रियमाणेन मूर्धनि शुक्लैश्च वालव्यजनैर्धूयमानैस्समन्ततः शङ्खभेरीनिनादैश्च हरिभिश्चाभिवन्दितः निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्
Verse 14
स वानरशतैस्तीक्ष्णैर्बहुभि श्शस्त्रपाणिभिः परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः
Verse 15
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् अवातरन्महातेजा श्शिबिकायास्सलक्ष्मणः
Verse 16
आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् कृताञ्जलौ स्थिते तस्मिन्वानराश्चाभवंस्तथा
Verse 17
तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम् वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत्
Verse 18
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे
Verse 19
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः
Verse 20
धर्ममर्थं च कामं च यस्तु काले निषेवते विभज्य सततं वीर स्स राजा हरिसत्तम
Verse 21
हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते
Verse 22
अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते
Verse 23
उद्योगसमयस्त्वेषप्राप्तश्शत्रुविनाशन सञ्चिन्त्यतां हि पिङ्गेश हरिभिस्सह मन्त्रिभिः
Verse 24
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् त्वत्प्रसादान्महाबाहो पुनःप्राप्तमिदं मया
Verse 25
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् त्वत्प्रसादान्महाबाहो पुनःप्राप्तमिदं मया
Verse 26
तव देव प्रसादाच्च भ्रातुश्च जयतां वर कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः
Verse 27
एते वानरमूख्याश्च शतशश्शत्रुसूदन प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्
Verse 28
ऋक्षाश्चावहिताश्शूरा गोलाङ्गूलाश्च राघव कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः देवगन्धर्वपुत्राश्च वानराः कामरूपिणः स्वैस्स्वै: परिवृतास्सैन्यैर्वर्तन्ते पथि राघव
Verse 29
ऋक्षाश्चावहिताश्शूरा गोलाङ्गूलाश्च राघव कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः देवगन्धर्वपुत्राश्च वानराः कामरूपिणः स्वैस्स्वै: परिवृतास्सैन्यैर्वर्तन्ते पथि राघव
Verse 30
शतैश्शतसहस्रैश्च वर्तन्ते कोटिभिश्च प्लवङ्गमाः अयुतैश्चावृता वीराश्शङ्कुभिश्च परन्तप अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः समुद्रैश्च परार्धैश्च हरयो हरियूथपाः आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः मेरुमन्दरसङ्काशा विन्ध्य मेरुकृतालयाः
Verse 31

Verse 32

Verse 33
ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् निहत्य रावणं सख्ये ह्यानयिष्यन्ति मैथिलीम्
Verse 34
ततस्तमुद्योगमवेक्ष्य बुद्धिमा न्हरिप्रवीरस्य निदेशवर्तिनः बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः
0:000:00
Speed: