Book 4 • Chapter 7
Sarga 7
25 verses
Verse 1
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः
Verse 2
न जाने निलयं तस्य सर्वथा पापरक्षसः सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्4.7.2
Verse 3
सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्4.7.3
Verse 4
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् तथाऽस्मि कर्ता न चिराद्यथा प्रीतो भविष्यसि4.7.4
Verse 5
अलं वैक्लब्यमालम्ब्य धैर्यमात्मगतं स्मर त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्
Verse 6
मयाऽपि व्यसनं प्राप्तं भार्याविरहजं महत् नाहमेवं हि शोचामि न च धैर्यं परित्यजे4.7.6
Verse 7
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् महात्मा च विनीतश्च किं पुनर्धृतिमान्भवान्4.7.7
Verse 8
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि4.7.8
Verse 9
व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवितान्तके विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति4.7.9
Verse 10
बालिशस्तु नरो नित्यं वैक्लब्यं योऽनुवर्तते स मज्जत्यवशश्शोके भाराक्रान्तेव नौर्जले4.7.10
Verse 11
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि4.7.11
Verse 12
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि4.7.12
Verse 13
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्4.7.13
Verse 14
हितं वयस्यभावेन ब्रूमि नोपदिशामि ते वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि4.7.14
Verse 15
मधुरं सान्त्वित स्तेन सुग्रीवेण स राघवः मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्4.7.15
Verse 16
प्रकृतिस्थस्तु काकुत्स्थस्सुग्रीववचनात्प्रभुः सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्4.7.16
Verse 17
कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया4.7.17
Verse 18
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः4.7.18
Verse 19
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः4.7.19
Verse 20
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव4.7.20
Verse 21
मया च यदिदं वाक्यमभिमानात्समीरितम् तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्4.7.21
Verse 22
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन एतत्ते प्रतिजानामि सत्येनैव च ते शपाम्यहमं
Verse 23
ततः प्रहृष्टस्सुग्रीवो वानरैस्सचिवैस्सह राघवस्य वचश्श्रुत्वा प्रतिज्ञातं विशेषतः4.7.23
Verse 24
एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ उभावन्योन्यसदृशं सुखं दुःखमभाषताम्4.7.24
Verse 25
महानुभावस्य वचो निशम्य हरिर्नृपाणामृषभस्य तस्य कृतं स मेने हरिवीरमुख्य स्तदा स्वकार्यं हृदयेन विद्वान्4.7.25
0:000:00
Speed: