🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 7

Sarga 7

25 verses

Verse 1
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः
Verse 2
 जाने निलयं तस्य सर्वथा पापरक्षसः सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्4.7.2
Verse 3
सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्4.7.3
Verse 4
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् तथाऽस्मि कर्ता  चिराद्यथा प्रीतो भविष्यसि4.7.4
Verse 5
अलं वैक्लब्यमालम्ब्य धैर्यमात्मगतं स्मर त्वद्विधानां  सदृशमीदृशं बुद्धिलाघवम्
Verse 6
मयाऽपि व्यसनं प्राप्तं भार्याविरहजं महत् नाहमेवं हि शोचामि   धैर्यं परित्यजे4.7.6
Verse 7
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् महात्मा  विनीतश्च किं पुनर्धृतिमान्भवान्4.7.7
Verse 8
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि4.7.8
Verse 9
व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवितान्तके विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति4.7.9
Verse 10
बालिशस्तु नरो नित्यं वैक्लब्यं योऽनुवर्तते  मज्जत्यवशश्शोके भाराक्रान्तेव नौर्जले4.7.10
Verse 11
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि4.7.11
Verse 12
ये शोकमनुवर्तन्ते  तेषां विद्यते सुखम् तेजश्च क्षीयते तेषां  त्वं शोचितुमर्हसि4.7.12
Verse 13
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः  शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्4.7.13
Verse 14
हितं वयस्यभावेन ब्रूमि नोपदिशामि ते वयस्यतां पूजयन्मे  त्वं शोचितुमर्हसि4.7.14
Verse 15
मधुरं सान्त्वित स्तेन सुग्रीवेण  राघवः मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्4.7.15
Verse 16
प्रकृतिस्थस्तु काकुत्स्थस्सुग्रीववचनात्प्रभुः सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्4.7.16
Verse 17
कर्तव्यं यद्वयस्येन स्निग्धेन  हितेन  अनुरूपं  युक्तं  कृतं सुग्रीव तत्त्वया4.7.17
Verse 18
एष  प्रकृतिस्थोऽहमनुनीतस्त्वया सखे दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः4.7.18
Verse 19
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे राक्षसस्य  रौद्रस्य रावणस्य दुरात्मनः4.7.19
Verse 20
मया  यदनुष्ठेयं विस्रब्धेन तदुच्यताम् वर्षास्विव  सुक्षेत्रे सर्वं सम्पद्यते तव4.7.20
Verse 21
मया  यदिदं वाक्यमभिमानात्समीरितम् तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्4.7.21
Verse 22
अनृतं नोक्तपूर्वं मे   वक्ष्ये कदाचन एतत्ते प्रतिजानामि सत्येनैव  ते शपाम्यहमं
Verse 23
ततः प्रहृष्टस्सुग्रीवो वानरैस्सचिवैस्सह राघवस्य वचश्श्रुत्वा प्रतिज्ञातं विशेषतः4.7.23
Verse 24
एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ उभावन्योन्यसदृशं सुखं दुःखमभाषताम्4.7.24
Verse 25
महानुभावस्य वचो निशम्य हरिर्नृपाणामृषभस्य तस्य कृतं  मेने हरिवीरमुख्य स्तदा स्वकार्यं हृदयेन विद्वान्4.7.25
0:000:00
Speed: