🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 8

Sarga 8

46 verses

Verse 1
परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत्4.8.1
Verse 2
सर्वथाऽहमनुग्राह्यो देवतानां  संशयः उपपन्न गुणोपेतस्सखा यस्य भवान्मम4.8.2
Verse 3
शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ सुरराज्यमपि प्राप्तुं स्वराज्यं किं पनः प्रभो 4.8.3
Verse 4
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्4.8.4
Verse 5
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः  तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान्4.8.5
Verse 6
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव4.8.6
Verse 7
रजतं वा सुवर्णं वा वस्त्राण्याभरणानि  अविभक्तानि साधूनामवगच्छन्ति साधवः4.8.7
Verse 8
आढ्यो वापि दरिद्रो वा दुःखितस्सुखितोऽपि वा निर्दोषो वा सदोषो वा वयस्यः परमा गतिः4.8.8
Verse 9
धनत्यागस्सुखत्यागो देहत्यागोऽपि वा पुनः वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्टवा तथाविधम्4.8.9
Verse 10
तत्तथेत्यब्रवीद्रामस्सुग्रीवं प्रियवादिनम् लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः4.8.10
Verse 11
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं  महाबलम् सुग्रीवस्सर्वतश्चक्षुर्वने लोलमपातयत्4.8.11
Verse 12
 ददर्श ततस्सालमविदूरे हरीश्वरः सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्4.8.12
Verse 13
तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः4.8.13
Verse 14
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् सालशाखां समुत्पाट्य विनीतमुपवेशयत्4.8.14
Verse 15
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे4.8.15 ततः प्रहृष्टस्सुग्रीवश्लक्ष्णं मधुरया गिरा उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्4.8.16
Verse 16
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे4.8.15 ततः प्रहृष्टस्सुग्रीवश्लक्ष्णं मधुरया गिरा उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्4.8.16
Verse 17
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ऋष्यमूकं गिरिवरं हृतभार्यस्सुदुःखितः4.8.17
Verse 18
सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः वालिना निकृतो भ्रात्रा कृतवैरश्च राघव4.8.18
Verse 19
वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि4.8.19
Verse 20
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः प्रत्युवाच  काकुत्स्थस्सुग्रीवं प्रहसन्निव4.8.20
Verse 21
उपकारफलं मित्रमपकारोऽरिलक्षणम् अद्यैव तं हनिष्यामि तव भार्यापहारिणम्4.8.21
Verse 22
इमे हि मे महावेगा पत्रिणस्तिग्मतेजसः कार्तिकेयवनोद्भूताश्शरा हेमविभूषिताः4.8.22 कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसन्निभाः सुपर्वाणस्सुतीक्ष्णाग्रास्सरोषा भुजगा इव4.8.23
Verse 23
इमे हि मे महावेगा पत्रिणस्तिग्मतेजसः कार्तिकेयवनोद्भूताश्शरा हेमविभूषिताः4.8.22 कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसन्निभाः सुपर्वाणस्सुतीक्ष्णाग्रास्सरोषा भुजगा इव4.8.23
Verse 24
भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्4.8.24
Verse 25
राघवस्य वचश्श्रुत्वा सुग्रीवो वाहिनीपतिः प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्4.8.25
Verse 26
राम शोकाभिभूतोऽहं शोकार्तानां भवान्गतिः वयस्य इति कृत्वा हि त्वय्यहं परिदेवये4.8.26
Verse 27
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् कृतः प्राणैर्बहुमतस्सत्येनापि शपामि ते4.8.27
Verse 28
वयस्य इति कृत्वा  विस्रब्धः प्रवदाम्यहम् दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः4.8.28
Verse 29
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः बाष्पोपहतया वाचा नोच्चैश्शक्नोति भाषितुम्4.8.29
Verse 30
बाष्पवेगं तु सहसा नदीवेगमिवागतम् धारयामास धैर्येण सुग्रीवो रामसन्निधौ4.8.30
Verse 31
सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे विनिश्श्वस्य  तेजस्वी राघवं वाक्यमब्रवीत्4.8.31
Verse 32
पुराऽहं वालिना राम राज्यात्स्वादवरोपितः परुषाणि  संश्राव्य निर्धूतोऽस्मि बलीयसा4.8.32
Verse 33
हृता भार्या  मे तेन प्राणेभ्योऽपि गरीयसी सुहृदश्च मदीया ये संयता बन्धनेषु ते4.8.33
Verse 34
यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया4.8.34
Verse 35
शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति4.8.35
Verse 36
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन्4.8.36
Verse 37
एते हि कपयस्स्निग्धा मां रक्षन्ति समन्ततः सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति  स्थिते4.8.37
Verse 38
सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते  मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः4.8.38
Verse 39
तद्विनाशाद्धि मे दुःखं प्रणष्टं स्यादनन्तरम् सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्4.8.39
Verse 40
एष मे राम शोकान्तश्शोकार्तेन निवेदितः दुःखितस्सुखितो वापि सख्युर्नित्यं सखा गतिः4.8.40
Verse 41
श्रुत्वैतद्वचनं रामस्सुग्रीवमिदमब्रवीत् किं निमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः4.8.41
Verse 42
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर अनन्तरं विधास्यामि सम्प्रधार्य बलाबलम्4.8.42
Verse 43
बलवान् हि ममामर्षश्श्रुत्वा त्वामवमानितम् वर्तते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः4.8.43
Verse 44
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव4.8.44
Verse 45
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना प्रहर्षमतुलं लेभे चतुर्भिस्सह वानरैः4.8.45
Verse 46
ततः प्रहृष्टवदनस्सुग्रीवो लक्ष्मणाग्रजे वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे4.8.46
0:000:00
Speed: