Book 4 • Chapter 9
Sarga 9
26 verses
Verse 1
वाली नाम मम भ्राता ज्येष्ठश्शत्रुनिषूदनः पितुर्बहुमतो नित्यं ममापि च तथा पुरा4.9.1
Verse 2
पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः कपीनामीश्वरो राज्ये कृतः परमसम्मतः4.9.2
Verse 3
राज्यं प्रशासतस्तस्य पितृपैतामहं महत् अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः4.9.3
Verse 4
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः तेन तस्य महद्वैरं स्त्रीकृतं विश्श्रुतं पुरा4.9.4
Verse 5
स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे4.9.5
Verse 6
प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा4.9.6
Verse 7
स तु वै निस्सृतः क्रोधात्तं हन्तुमसुरोत्तमम् वार्यमाणस्तत स्त्रीभिर्मया च प्रणतात्मना4.9.7
Verse 8
स तु निर्धूय ताः सर्वा निर्जगाम महाबलः ततोऽहमपि सौहार्दान्निस्सृतो वालिना सह4.9.8
Verse 9
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम्4.9.9
Verse 10
तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा4.9.10
Verse 11
स तृणैरावृतं दुर्गं धरण्या विवरं महत् प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ4.9.11
Verse 12
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः4.9.12
Verse 13
इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम्4.9.13
Verse 14
मया त्वेतद्वचश्श्रुत्वा याचितस्स परन्तपः शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत्4.9.14
Verse 15
तस्य प्रविष्टस्य बिलं साग्रस्संवत्सरो गतः स्थितस्य मम बिलद्वारि स कालो व्यत्यवर्तत4.9.15
Verse 16
अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः4.9.16
Verse 17
अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः
Verse 18
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः निरस्तस्य च सङ्ग्रामे क्रोशतोनिस्स्वनो गुरोः4.9.18
Verse 19
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् पिधाय च बिलद्वारं शिलया गिरिमात्रया4.9.19 शोकार्तश्चोदकं कृत्वा किष्किन्धामागतस्सखे गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिश्श्रुतम्4.9.20
Verse 20
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् पिधाय च बिलद्वारं शिलया गिरिमात्रया4.9.19 शोकार्तश्चोदकं कृत्वा किष्किन्धामागतस्सखे गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिश्श्रुतम्4.9.20
Verse 21
ततोऽहं तैस्समागम्य सम्मतैरभिषेचितः राज्यं प्रशासतस्तस्य न्यायतो मम राघव4.9.21 आजगाम रिपुं हत्वा वाली तमसुरोत्तमम्
Verse 22
अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत्4.9.22
Verse 23
निग्रहेऽपि समर्थस्य तं पापं प्रति राघव न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता4.9.23
Verse 24
हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा4.9.24 मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना4.9.25
Verse 25
हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा4.9.24 मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना4.9.25
Verse 26
नत्वा पादावहं तस्य मकुटेनास्पृशं प्रभो अपि वाली मम क्रोधान्न प्रसादं चकार सः4.9.26
0:000:00
Speed: