Book 4 • Chapter 10
Sarga 10
35 verses
Verse 1
ततः क्रोधसमाविष्टं सम्रब्धं तमुपागतम् अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया4.10.1
Verse 2
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः4.10.2
Verse 3
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम्4.10.3
Verse 4
आर्तश्चाथ बिलद्वारि स्थितस्संवत्सरं नृप दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम्4.10.4 शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा4.10.5 तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः
Verse 5
आर्तश्चाथ बिलद्वारि स्थितस्संवत्सरं नृप दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम्4.10.4 शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा4.10.5 तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः
Verse 6
विषादात्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च4.10.6 अभिषिक्तो न कामेन तन्मेत्वं क्षन्तुमर्हसि
Verse 7
त्वमेव राजा मानार्हस्सदा चाहं यथा पुरम्4.10.7 राजभावनियोगोऽयं मम त्वद्विरहात्कृतः सामात्यपौरनगरं स्थितं निहतकण्टकम्4.10.8
Verse 8
त्वमेव राजा मानार्हस्सदा चाहं यथा पुरम्4.10.7 राजभावनियोगोऽयं मम त्वद्विरहात्कृतः सामात्यपौरनगरं स्थितं निहतकण्टकम्4.10.8
Verse 9
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् मा च रोषं कृथास्सौम्य मयि शत्रुनिबर्हण4.10.9
Verse 10
याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः4.10.10 राजभावे नियुक्तोऽहं शून्यदेशजिगीषया
Verse 11
स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः4.10.11 धिक्त्वामिति च मा मुक्त्वा बहु तत्तदुवाच ह
Verse 12
प्रकृतीश्च समानीय मुन्त्रिणश्चैव सम्मतान्4.10.12 मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्
Verse 13
विदितं वो यथा रात्रौ मायावी स महासुरः4.10.13 मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः
Verse 14
तस्य तद्वचनं श्रुत्वा निस्सृतोऽहं नृपालयात्4.10.14 अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः
Verse 15
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः4.10.15 प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां समुपागतौ अनुद्रुतश्च वेगेन प्रविवेश महाबिलम्4.10.16
Verse 16
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः4.10.15 प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां समुपागतौ अनुद्रुतश्च वेगेन प्रविवेश महाबिलम्4.10.16
Verse 17
तं प्रविष्टं विदित्वा सुघोरं सुमहद्बिलम् अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः4.10.17
Verse 18
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्4.10.18
Verse 19
स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् तं च मे मार्गमाणस्य गतस्संवत्सरस्तदा4.10.19
Verse 20
स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः निहतश्च मया तत्र सोऽसुरो बन्धुभिस्सह
Verse 21
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले4.10.21
Verse 22
सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेस्सुतम् निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम्4.10.22
Verse 23
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः4.10.23
Verse 24
पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् ततोऽहं तेन निष्क्रम्य यथा पुरमुपागतः4.10.24
Verse 25
अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽत्मनः सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्
Verse 26
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः निर्वासयामास तदा वाली विगतसाध्वसः4.10.26
Verse 27
तेनाहमपविद्धश्च हृतदारश्च राघव तद्भयाच्छ महीकृत्स्ना क्रान्तेयं सवनार्णवा4.10.27
Verse 28
ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे4.10.28
Verse 29
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् अनागसा मया प्राप्तं व्यसनं पश्य राघव4.10.29
Verse 30
वालिनस्तु भयार्तस्य सर्वलोकभयङ्कर कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्4.10.30
Verse 31
एवमुक्तस्स तेजस्वी धर्मज्ञो धर्मसंहितम् वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव4.10.31
Verse 32
अमोघास्सूर्यसङ्काशा ममैते निशिता श्शराः तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः4.10.32
Verse 33
यावत्तं नाभिपश्यामि तव भार्यापहारिणम् तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः4.10.33
Verse 34
आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्4.10.34
Verse 35
तस्य तद्वचनं श्रुत्वा हर्षपौरुषवर्धनम् सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत्4.10.35
0:000:00
Speed: