Book 4 • Chapter 11
Sarga 11
93 verses
Verse 1
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च4.11.1
Verse 2
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैश्शरैः त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः4.11.2
Verse 3
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या तन्ममैकमनाश्श्रुत्वा विधत्स्व यदनन्तरम्4.11.3
Verse 4
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः4.11.4
Verse 5
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्4.11.5
Verse 6
बहवस्सारवन्तश्च वनेषु विविधा द्रुमाः वालिना तरसा भग्ना बलं प्रथयताऽत्मनः4.11.6
Verse 7
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः बलं नागसहस्रस्य धारयामास वीर्यवान्4.11.7
Verse 8
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः जगाम सुमहाकाय स्समुद्रं सरितां पतिम्
Verse 9
ऊर्मिमन्तमभिक्रम्य सागरं रत्नसञ्चयम् मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम्4.11.9
Verse 10
ततस्समुद्रो धर्मात्मा समुत्थाय महाबलः अब्रवीद्वचनं राजन्नसुरं कालचोदितम्4.11.10
Verse 11
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति4.11.11
Verse 12
शैलराजो महारण्ये तपस्विशरणं परम् शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः4.11.12 गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे4.11.13
Verse 13
शैलराजो महारण्ये तपस्विशरणं परम् शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः4.11.12 गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे4.11.13
Verse 14
तं भीत इति विज्ञाय समुद्रमसुरोत्तमः हिमवद्वनमागच्छच्छरश्चापादिव च्युतः4.11.14 ततस्तस्य गिरेश्श्वेता गजेन्द्रविप्रलाश्शिलाः चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च4.11.15
Verse 15
तं भीत इति विज्ञाय समुद्रमसुरोत्तमः हिमवद्वनमागच्छच्छरश्चापादिव च्युतः4.11.14 ततस्तस्य गिरेश्श्वेता गजेन्द्रविप्रलाश्शिलाः चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च4.11.15
Verse 16
ततश्श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः हिमवानब्रवीद्वाक्यं स्वे एव शिखरे स्थितः4.11.16
Verse 17
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम्4.11.17
Verse 18
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः4.11.18
Verse 19
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः समाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः4.11.19
Verse 20
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्4.11.20
Verse 21
वाली नाम महाप्राज्ञश्शक्रतुल्य पराक्रमः अध्यास्ते वानरश्श्रीमान् किष्किन्धामतुलप्रभाम्4.11.21
Verse 22
स समर्थो महाप्राज्ञस्तव युद्धविशारदः द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः4.11.22
Verse 23
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि स हि दुर्धर्षणो नित्यं शूरस्समरकर्मणि4.11.23
Verse 24
श्रुत्वा हिमवतो वाक्यं कोधाविष्टस्स दुन्दुभिः जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा4.11.24
Verse 25
धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले4.11.25 ततस्तु द्वारमागम्य किष्किन्धाया महाबलः ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा4.11.26
Verse 26
धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले4.11.25 ततस्तु द्वारमागम्य किष्किन्धाया महाबलः ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा4.11.26
Verse 27
समीपस्थान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा4.11.27
Verse 28
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः4.11.28
Verse 29
मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्4.11.29
Verse 30
किमर्थं नगरद्वारमिदं रुध्द्वा विनर्दसि दुन्दुभे विदितो मेऽसि रक्षप्राणान्महाबल4.11.30
Verse 31
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः4.11.31
Verse 32
न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्4.11.32
Verse 33
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् गृह्यतामुदयस्स्वैरं कामभोगेषु वानर4.11.33
Verse 34
दीयतां सम्प्रदानं च परिष्वज्य च वानरान् सर्वशाखामृगेन्द्र स्त्वं संसादय सुहृज्जनान्4.11.34
Verse 35
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः4.11.35
Verse 36
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम्4.11.36
Verse 37
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् विसृज्य ताः स्त्रियस्सर्वास्ताराप्रभृतिकास्तदा4.11.37
Verse 38
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम्4.11.38
Verse 39
तमेवमुक्त्वा सङ्कृद्धो मालामुत्क्षिप्य काञ्चनीम् पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत4.11.39
Verse 40
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् आविध्यत तदा वाली विनदन्कपिकुञ्जरः4.11.40
Verse 41
वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम् श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः4.11.41
Verse 42
तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः युद्धं समभवद्घोरं दुन्दुभेर्वानरस्यच4.11.42
Verse 43
अयुद्ध्यत तदा वाली शक्रतुल्यपराक्रमः मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा4.11.43
Verse 44
परस्परं घ्नतो स्तत्र वानरासुरयोस्तदा आसीदसुरो युद्धे शक्रसूनुर्व्यवर्धत4.11.44
Verse 45
व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा पपात च महाकायः क्षितौ पञ्चत्वमागतः4.11.46
Verse 46
व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा पपात च महाकायः क्षितौ पञ्चत्वमागतः4.11.46
Verse 47
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् चिक्षेप बलवान्वाली वेगेनैकेन योजनम्4.11.47
Verse 48
तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गप्याश्रमं प्रति4.11.48
Verse 49
तान्दृष्ट्वा पतितांस्तस्य मुनिश्शोणितविप्रुषः क्रुद्धस्तत्र महाभागश्चिन्तयामास कोन्वयम्4.11.49
Verse 50
येनाहं सहसा स्पृष्टश्शोणितेन दुरात्मना कोऽयं दुरात्मा दुर्भुदि्घरकृतात्मा च बालिशः4.11.50
Verse 51
इत्युक्त्वाऽथ विनिष्क्रम्य ददर्श मुनिसत्तमः महिषं पर्वताकारं गतासुं पतितं भुवि4.11.51
Verse 52
स तु विज्ञाय तपसा वानरेण कृतं हि तत् उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति4.11.52
Verse 53
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः4.11.53
Verse 54
सम्भग्नाः पादपाश्चैमेक्षिपतेहासुरीं तनुम् समन्तादाद्योजनं पूर्णमाश्रमं मामकं यदि4.11.54 आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति
Verse 55
ये चापि सचिवाः स्तस्य संश्रिता मामकं वनम्4.11.55 न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम्
Verse 56
यदि तेऽपी ह तिष्ठन्ति शपिष्ये तानपि ध्रुवम्4.11.56 वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते पत्राङ्कुरविनाशाय फलमूलाभवाय च4.11.57
Verse 57
यदि तेऽपी ह तिष्ठन्ति शपिष्ये तानपि ध्रुवम्4.11.56 वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते पत्राङ्कुरविनाशाय फलमूलाभवाय च4.11.57
Verse 58
दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् बहुवर्षसहस्राणि स वै शैलो भविष्यति4.11.58
Verse 59
ततस्ते वानराश्श्रुत्वा गिरं मुनिसमीरिताम् निश्चक्रमुर्वनात्तस्मात्तान्दृष्ट्वा वालिरब्रवीत्4.11.59
Verse 60
किं भवन्तस्समस्ताश्च मतङ्गवनवासिनः मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्4.11.60
Verse 61
ततस्ते कारणं सर्वं तदा शापं च वालिनः शशंसुर्वानरास्सर्वे वालिने हेममालिने4.11.61
Verse 62
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् स महर्षिंतदाऽसाद्य याचते स्म कृताञ्जलिः4.11.62
Verse 63
महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा शापधारणभीतस्तु वाली विह्वलतां गतः4.11.63
Verse 64
ततश्शापभयाद्भीत ऋश्यमूकं महागिरिम् प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर4.11.64
Verse 65
तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम् विचरामि सहामात्यो विषादेन विवर्जितः4.11.65
Verse 66
एषोऽस्थिनिचयस्तस्य दुन्दुभेस्सम्प्रकाशते वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान्4.11.66
Verse 67
इमे च विपुलास्सालास्सप्त शाखावलम्बिनः यत्रैकं घटते वाली निष्पत्रयितुमोजसा4.11.67
Verse 68
एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप4.11.68
Verse 69
तथा ब्रुवाणं सुग्रीवं प्रहसन् लक्ष्मणोऽब्रवीत् कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्4.11.69
Verse 70
तमुवाचाथ सुग्रीवस्सप्त सालानिमान्पुरा एवमेकैकशो वाली विव्याथाथ स चासकृत् 4.11.70
Verse 71
रामोऽपिदारयेदेषां बाणेनैकेन च द्रुमम् वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्4.11.71
Verse 72
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुश्शते4.11.72
Verse 73
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्4.11.73
Verse 74
शूरश्च शूरघाती च प्रख्यातबलपौरुषः बलवान्वानरो वाली संयुगेष्वपराजितः4.11.74
Verse 75
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः4.11.75
Verse 76
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् विचिन्तयन्न मुञ्चामि ऋश्यमूकमहन्विमम्4.11.76
Verse 77
उद्विग्नश्शङ्कितश्चापि विचरामि महावने अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः4.11.77
Verse 78
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः4.11.78
Verse 79
किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः अप्रत्यक्षं तु मे वीर्यं समरे तव राघव4.11.79
Verse 80
न खल्वहं त्वां तुलये नावमन्ये न भीषये कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम4.11.80
Verse 81
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्4.11.81
Verse 82
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः4.11.82
Verse 83
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते4.11.83
Verse 84
एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया4.11.84 तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान्4.11.85
Verse 85
एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया4.11.84 तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान्4.11.85
Verse 86
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत्4.11.86
Verse 87
आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे4.11.87 लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा4.11.88 क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन
Verse 88
आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे4.11.87 लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा4.11.88 क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन
Verse 89
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम्4.11.89
Verse 90
स एव संशयस्तात तव तस्य च यद्बले4.11.90 सालमेकं तु निर्भिद्या भवेद्व्यक्तिर्बलाबले
Verse 91
कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम्4.11.91 आकर्णपूर्णमायम्य विसृजस्व महाशरम्
Verse 92
इमं हि सालं सहित स्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया4.11.92
Verse 93
यथा हि तेजस्सु वरस्सदा रवि र्यथा हि शैलो हिमवान्महाद्रिषु यथा चतुष्पात्सु च केसरी वर स्तथा नरणामसि विक्रमे वरः4.11.93
0:000:00
Speed: