Book 4 • Chapter 12
Sarga 12
42 verses
Verse 1
एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्4.12.1
Verse 2
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः 4.12.2
Verse 3
स विसृष्टो बलवता बाणस्स्वर्णपरिष्कृतः भित्त्वा सालान् गिरिप्रस्थं सप्त भूमिं विवेश ह4.12.3
Verse 4
प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह4.12.4
Verse 5
तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः रामस्य शरवेगेन विस्मयं परमं गतः4.12.5
Verse 6
स मूर्ध्ना न्यपतदभ्मौ प्रलम्बीकृतभूषणः सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः4.12.6
Verse 7
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्4.12.7
Verse 8
सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ समर्थस्समरे हन्तुं किं पुन र्वालिनं प्रभो 4.12.8
Verse 9
येन सप्तमहासाला गिरिर्भूमिश्च दारिताः बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः4.12.9
Verse 10
अद्य मे विगतश्शोकः प्रीतिरद्य परा मम सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्4.12.10
Verse 11
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः4.12.11
Verse 12
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः4.12.12
Verse 13
अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्4.12.13
Verse 14
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने4.12.14
Verse 15
सुग्रीवो व्यनदद्घोरं वालिनोऽऽह्वानकारणात् गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्4.12.15
Verse 16
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव4.12.16
Verse 17
ततस्सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव4.12.17
Verse 18
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः जघ्नतुस्समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ4.12.18
Verse 19
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्यतु अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ4.12.19
Verse 20
यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम्4.12.20
Verse 21
एतस्मिन्नन्तरे भग्नस्सुग्रीवस्तेन वालिना अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे4.12.21
Verse 22
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्झरीकृतः वालिनाऽभिद्रुतः क्रोधात्प्रविवेश महावनम्4.12.22
Verse 23
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाद्युतिः4.12.23
Verse 24
राघवोऽसि सह भ्रात्रा सह चैव हनूमता तदेव वनमागच्छत्सुग्रीवो यत्र वानरः4.12.24
Verse 25
तं समीक्ष्यागतं रामं सुग्रीवस्सहलक्ष्मणम् ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन्4.12.25
Verse 26
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्4.12.26
Verse 27
तामेन वेलां वक्तव्यं त्वया राघव तत्त्वतः वालिनं न निहन्मीति ततो नाहमितो व्रजे4.12.27
Verse 28
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः करुणं दीनया वाचा राघवः पुनरब्रवीत्4.12.28
Verse 29
सुग्रीव श्रूयातां तात क्रोधश्च व्यपनीयताम् कारणं येन बाणोऽयं न मया स विसर्जितः4.12.29
Verse 30
अलङ्कारेण वेषेण प्रमाणेन गतेन च त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्4.12.30
Verse 31
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये4.12.31
Verse 32
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्4.12.32
Verse 33
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया4.12.33
Verse 34
त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया मौढ्यं च मम बाल्यं च ख्यापितं स्यात्कपीश्वर4.12.34
Verse 35
दत्ताभयवधो नाम पातकं महदुच्यते अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी4.12.35 त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान्
Verse 36
तस्माद्युध्यस्व भूयस्त्वं मा मा शङ्केश्च वानर4.12.36 एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे निरस्तमिषुणैकेन वेष्टमानं महीतले4.12.37
Verse 37
तस्माद्युध्यस्व भूयस्त्वं मा मा शङ्केश्च वानर4.12.36 एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे निरस्तमिषुणैकेन वेष्टमानं महीतले4.12.37
Verse 38
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्4.12.38
Verse 39
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः
Verse 40
ततो गिरितटे जातामुत्पाट्य कुसुमाकुलाम् लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्4.12.40
Verse 41
स तया शुशुभे श्रीमान् लतया कण्ठसक्तया मालयेव बलाकानां ससन्ध्य इव तोयदः4.12.41
Verse 42
विभ्राजमानो वपुषा रामवाक्यसमाहितः जगाम सह रामेण किष्किन्थां वालिपालिताम्4.12.42
0:000:00
Speed: