Book 4 • Chapter 13
Sarga 13
30 verses
Verse 1
ऋष्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः जगाम सहसुग्रीवो वालिविक्रमपालिताम्4.13.1
Verse 2
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् शरांश्चादित्यसङ्काशान्गृहीत्वा रणसाधकान्4.13.2
Verse 3
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः4.13.3
Verse 4
पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः तारश्चैव महातेजा हरियूथपयूथपः4.13.4
Verse 5
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः प्रसन्नाम्बुवहाश्चैव सरितस्सागरङ्गमाः4.13.5
Verse 6
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः4.13.6
Verse 7
वैढूर्यविमलै:पर्णै पद्मैश्चाकोशकुट्मलैः शोभितांत्सजलान्मार्गे तटाकांश्च व्यलोकयन्4.13.7
Verse 8
कारण्डैस्सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः चक्रवाकै स्तथा चान्यैश्शकुनैः रुपनादितान्4.13.8
Verse 9
मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान् चरतस्सर्वतौऽपश्यन् स्थलीषु हरिणान् स्थितान्4.13.9
Verse 10
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः4.13.10
Verse 11
मत्तान्गिरितटोत्कृष्टान्पर्वतानिव जङ्गमान् वारणान्वारिदप्रख्यान्महीरेणुसमुक्षितान्4.13.11
Verse 12
वने वनचरांश्चान्यान्खेचरांश्च विहङ्गमान् पश्यन्तस्त्वरिता जग्मुस्सुग्रीववशवर्तिनः4.13.12
Verse 13
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः द्रुमषण्डं वनं दृष्ट्वा रामस्सुग्रीवमब्रवीत्4.13.13
Verse 14
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते मेघसङ्घातविपुलः पर्यन्तकदलीवृतः4.13.14
Verse 15
किमेतत् ज्ञातुमिच्छामि सखे कौतूहलं हि मे कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया4.13.15
Verse 16
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम्4.13.16
Verse 17
एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्4.13.17
Verse 18
अत्र सप्तजना नाम मुनय स्संश्रितव्रताः सप्तैवासन्नधशशीर्षा नियतं जलशायिनः4.13.18
Verse 19
सप्तरात्रकृताहारा वायुनाचलवासिनः दिवं वर्षशतैर्याताः सप्तभिः सकलेबराः4.13.19
Verse 20
तेषामेवं प्रभावानां द्रुमप्राकारसंवृतम् आश्रमस्सुदुराधर्ष अपि सेन्द्रैस्सुरासुरैः4.13.20
Verse 21
पक्षिणो वर्जयन्त्येतत्तथाऽन्ये वनचारिणः विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः4.13.21
Verse 22
विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव4.13.22
Verse 23
त्रेताग्नयोऽपि दीप्यन्ते दूमो ह्यत्र प्रकाशते वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः4.13.23
Verse 24
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः मेघजालप्रतिच्छन्ना वैढूर्यगिरयो यथा4.13.24
Verse 25
कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव लक्ष्मणेव सह भ्रात्रा प्रयन्तस्सयताञ्जलिः4.13.25
Verse 26
प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते4.13.26
Verse 27
ततो रामस्सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्4.13.27
Verse 28
अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः सुग्रीवो वानराश्चैव जग्मुसंहृष्टमानसाः4.13.28
Verse 29
ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात् ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्4.13.29
Verse 30
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्सह4.13.30
0:000:00
Speed: