Book 4 • Chapter 14
Sarga 14
22 verses
Verse 1
सर्वे ते त्वरितं गत्वा किष्किन्धां वालि पालिताम् वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने4.14.1
Verse 2
विचार्य सर्वतो दृष्टिं कानने काननप्रियः सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम्4.14.2
Verse 3
ततस्स निनदं घोरं कृत्वा युद्धाय चाह्वयत् परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्4.14.3 गर्जन्निव महामेघो वायुवेगपुरस्सरः
Verse 4
अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा4.14.4 दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्
Verse 5
हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्
Verse 6
प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा सफलां कुरु तां क्षिप्रं लतां काल इवागतः4.14.6
Verse 7
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः4.14.7
Verse 8
कृताभिज्ञानचिह्नस्त्व मनया गजसाह्वया लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव4.14.8
Verse 9
शोभसेऽह्यधिकं वीर लतया कण्ठसक्तया विपरीत इवाकाशे सूर्यो नक्षत्रमालया4.14.9
Verse 10
अद्य वालिसमुत्थं ते भयं वैरं च वानर एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे4.14.10
Verse 11
मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् वाली विनिहतो यावद्वने पांसुषु वेष्टते4.14.11
Verse 12
यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान्4.14.12
Verse 13
प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः तेनावेहि बलेनाद्य वालिनं निहतं मया4.14.13
Verse 14
अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्टता धर्मलोभपरीतेन न च वक्ष्ये कथञ्चन4.14.14
Verse 15
सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम् प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः4.14.15
Verse 16
तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः4.14.16
Verse 17
जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः4.14.17
Verse 18
रिपूणां धर्षिण शूरा मर्षयन्ति न संयुगे जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः4.14.18
Verse 19
स तु रामवचश्श्रुत्वा सुग्रीवो हेमपिङ्गलः ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्4.14.19
Verse 20
तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः4.14.20
Verse 21
द्रवन्ति च मृगाश्शीघ्रं भग्ना इव रणे हयाः पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः4.14.21
Verse 22
ततस्सजीमूतगणप्रणादो नादं ह्यमुञ्चत्त्वरया प्रतीतः सूर्यात्मजश्शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोर्मिः4.14.22
0:000:00
Speed: