Book 4 • Chapter 15
Sarga 15
31 verses
Verse 1
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः शुश्रावान्तः पुर गतो वाली भ्रातुरमर्षणः4.15.1
Verse 2
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् मदश्चैकपदे नष्टः क्रोधश्चापतितो महान्4.15.2
Verse 3
स तु रोषपरीताङ्गो वाली सन्ध्याकनकप्रभः उपरक्त इवादित्यस्सद्यो निष्प्रभतां गतः4.15.3
Verse 4
वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः भात्युत्पतितपद्मस्तु समृणाळ इव ह्रदः4.15.4
Verse 5
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः वेगेन चरणन्यासैर्दारयन्निव मेदिनीम्4.15.5
Verse 6
तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदाः उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः4.15.6
Verse 7
साधु क्रोधमिमं वीर नदीवेगमिवागतम् शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्4.15.7
Verse 8
काल्यमेतेन सङ्ग्रामं करिष्यसि च वानर वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते4.15.8
Verse 9
सहसा तव निष्क्रामो मम तावन्न रोचते श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे4.15.9
Verse 10
पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः4.15.10
Verse 11
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः इहैत्य पुनराह्वानं शङ्कां जनयतीव मे4.15.11
Verse 12
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः निनादश्चापि संरम्भो नैतदल्पं हि कारणम्4.15.12
Verse 13
नासहायमहं मन्ये सुग्रीवं तमिहागतम् अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति4.15.13
Verse 14
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः अपरीक्षितवीर्येण सुग्रीवस्सहनैष्यति
Verse 15
पूर्वमेव मया वीर श्रुतं कथयतो वचः अङ्गदस्य कुमारस्य वक्ष्यामित्वा हितं वचः4.15.15
Verse 16
अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः प्रवृत्तिस्तेन कथिता चारै राप्तैर्निवेदिता4.15.16
Verse 17
अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ4.15.17 सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ
Verse 18
तव भ्रातुर्हि विख्यातस्सहायो रणकर्कशः रामः परबलामर्दी युगान्ताग्निरिवोत्थितः4.15.18
Verse 19
निवासवृक्षः साधूनामापन्नानां परा गतिः आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्4.15.19
Verse 20
ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः धातूनामिव शैलेन्द्रो गुणानामाकरो महान्4.15.20
Verse 21
तत्क्षमं न विरोधस्ते सह तेन महात्मना दुर्जयेनाप्रमेयेन रामेण रणकर्मसु4.15.21
Verse 22
शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम् श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्4.15.22
Verse 23
यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा4.15.23
Verse 24
अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः4.15.24
Verse 25
लालनीयो हि ते भ्राता यवीयानेष वानरः तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते4.15.25
Verse 26
न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन4.15.26 दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु4.15.27
Verse 27
न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन4.15.26 दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु4.15.27
Verse 28
सुग्रीवो विपुलग्रीवस्तवबन्धुस्सदा मतः भ्रातृस्सौहृदमालम्ब नान्या गतिरिहास्ति ते4.15.28
Verse 29
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे4.15.29
Verse 30
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोष मेवानुविधातुमर्हसि क्षमो हि ते कोसलराजसूनुना न विग्रहश्शक्रसमानतेजसा4.15.30
Verse 31
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले4.15.31
0:000:00
Speed: