Book 4 • Chapter 16
Sarga 16
38 verses
Verse 1
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्4.16.1
Verse 2
गर्जतोऽस्य च सुसम्भ्रश्च भ्रातुः शत्रोर्विशेषतः मर्षयिष्याम्यहं केन कारणेन वरानने4.16.2
Verse 3
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् धर्षणामर्षणं भीरु मरणादतिरिच्यते4.16.3
Verse 4
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे सुग्रीवस्य च सम्रम्भं हीनग्रीवस्य गर्जतः4.16.4
Verse 5
न च कार्यो विषादस्ते राघवं प्रति मत्कृते धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति4.16.5
Verse 6
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि सौहृदं दर्शितं तारे मयि भक्ति: कृता त्वया4.16.6
Verse 7
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते4.16.7
Verse 8
अहं ह्याजौस्थितस्यास्य करिष्यामि यथेप्सितम् वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति4.16.8
Verse 9
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् कृतं तारे सहांयत्वं सौहृदं दर्शितं मयि4.16.9
Verse 10
शापिताऽपि मम प्राणैर्निवर्तस्व जयेन च अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे4.16.10
Verse 11
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्4.16.11
Verse 12
ततः स्वस्त्ययनं कृत्वा मन्त्रविद्विजयैषिणी अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता4.16.12
Verse 13
प्रविष्टायां तु तारायां सह स्त्रीभिस्स्वमालयम् नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्4.16.13
Verse 14
स निश्श्वस्य महातेजा वाली परमरोषणः सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया4.16.14
Verse 15
स ददर्श ततश्श्रीमान् सुग्रीवं हेमपिङ्गलम् सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्4.16.15
Verse 16
स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् गाढं परिदधे वासो वाली परमरोषण:4.16.16
Verse 17
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः4.16.17
Verse 18
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्4.16.18
Verse 19
तं वाली क्रोधताम्राक्षस्सुग्रीवं रणपण्डितम् आपतन्तं महावेगमिदं वचनमब्रवीत्4.16.19
Verse 20
एष मुष्टिर्मयाबद्धो गाढस्सन्निहिताङ्गुलिः मया वेगविमुक्तस्ते प्राणानादाय यास्यति4.16.20
Verse 21
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् तवैव चा हरन्प्राणान्मुष्टिः पततु मूर्धनि4.16.21
Verse 22
ताडितस्तेन सङ्कृद्धस्समभिक्रम्य वेगितः अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः4.16.22
Verse 23
सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः4.16.23
Verse 24
स तु वाली प्रचलितस्सालताडनविह्वलः गुरुभारसमाक्रान्तो नौ सार्थ इव सागरे4.16.24
Verse 25
तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे परस्परममित्रघ्नौ च्छिद्रान्वेषणतत्परौ4.16.25
Verse 26
ततोऽवर्धत वाली तु बलवीर्यसमन्वितः सूर्यपुत्रो महावीर्यस्सुग्रीवः परिहीयते4.16.26
Verse 27
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः वालिनं प्रति सामर्षो दर्शयामास लाघवम्4.16.27
Verse 28
वृक्षैः स्सशाखै स्सशिखैर्वज्रकोटिनिभैर्नखैः4.16.28 मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव4.16.29
Verse 29
वृक्षैः स्सशाखै स्सशिखैर्वज्रकोटिनिभैर्नखैः4.16.28 मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव4.16.29
Verse 30
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ मेघाविव महाशब्दै स्तर्जमानौ परस्परम्4.16.30
Verse 31
हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम् वीक्षमाणं दिशश्चैव राघवस्स मुहुर्मुहुः4.16.31
Verse 32
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् शरं च वीक्षते वीरो वालिनो वधकारणात् 4.16.32
Verse 33
ततो धनुषि सन्धाय शरमाशीविषोपमम् पुरयामास तच्चापं कालचक्रमिवान्तकः4.16.33
Verse 34
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः4.16.34
Verse 35
मुक्तस्तु वज्रनिर्घोष: प्रदीप्ताशनिसन्निभः राघवेण महाबाणो वालिवक्षसि पातितः4.16.35
Verse 36
ततस्तेन महातेजा वीयौटत्सिक्तः कपीश्वरः वेगेनाभिहतो वाली निपपात महीतले4.16.36
Verse 37
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले आश्वयुक्समये मासि गतश्रीको विचेतनः4.16.37
Verse 38
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभुषितम् ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः4.16.38
0:000:00
Speed: