Book 5 • Chapter 16
Sarga 16
32 verses
Verse 1
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्
Verse 2
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः सीतामाश्रित्य तेजस्वी हनूमान्विललाप ह
Verse 3
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया यदि सीताऽऽपि दुःखार्ता कालो हि दुरतिक्रमः
Verse 4
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे
Verse 5
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् राघवोऽऽर्हति वैदेहीं तं चेयमसितेक्षणा
Verse 6
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् जगाम मनसा रामं वचनं चेदमब्रवीत्
Verse 7
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः रावणप्रतिमो वीर्ये कबन्धश्च निपातितः
Verse 8
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः
Verse 9
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् निहतानि जनस्थाने शरैरग्निशिखोपमैः
Verse 10
खरश्च निहतसङ्ख्ये त्रिशिराश्च निपातितः दूषणश्च महातेजा रामेण विदितात्मना
Verse 11
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम्
Verse 12
सागरश्च मया क्रान्तश्श्रीमान्नदनदीपतिः अस्या हेतोर्विशालाक्ष्याः पुरी चेयमवेक्षिता
Verse 13
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः
Verse 14
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम्
Verse 15
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः सुता जनकराजस्य सीता भर्तृदृढव्रता उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते पद्मरेणुनिभैः कीर्णा शुभैः केदारपाम्सुभिः
Verse 16
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः सुता जनकराजस्य सीता भर्तृदृढव्रता उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते पद्मरेणुनिभैः कीर्णा शुभैः केदारपाम्सुभिः
Verse 17
विक्रान्तस्यार्यशीलस्य संयुगेष्न्विवर्तिनः स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी
Verse 18
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः इयं सा दयिता भार्या राक्षसीवशमागता
Verse 19
सर्वान् भोगान्परित्यज्य भर्तृस्नेहबलात्कृता अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता या परां भजते प्रीतिं वनेऽऽपि भवने यथा सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी सहते यातनामेतामनर्थानामभागिनी
Verse 20

Verse 21

Verse 22
इमां तु शीलसम्पन्नां द्रष्टुमर्हति राघवः रावणेन प्रमथितां प्रपामिव पिपासितः
Verse 23
अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्
Verse 24
कामभोगैः परित्यक्ता हीना बन्धुजनेन च धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी
Verse 25
नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् एकस्थहृदया नूनं राममेवानुपश्यति
Verse 26
भर्ता नाम परं नार्या भूषणं भूषणादपि एषा तु रहिता तेन भूषणार्हा न शोभते
Verse 27
दुष्करं कुरुते रामो हीनो यदनया प्रभुः धारयत्यात्मनो देहं न दुःखेनावसीदति
Verse 28
इमामसितकेशान्तां शतपत्रनिभेक्षणाम् सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः
Verse 29
क्षतिक्षमा पुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले
Verse 30
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना
Verse 31
अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः हिमव्यपायेन च शीतरश्मि रभ्युत्थितो नैकसहस्ररश्मि:
Verse 32
इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धि: संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी
0:000:00
Speed: