🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 18

Sarga 18

32 verses

Verse 1
तथा विप्रेक्ष्यमाणस्य वनं पुष्पितपादपम् विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाऽभवत्
Verse 2
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् शुश्राव ब्रह्मघोषांश्च  विरात्रे ब्रह्मरक्षसाम्
Verse 3
अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः
Verse 4
विबुध्यतु यथाकालं राक्षसेन्द्रः प्रतापवान् स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्
Verse 5
भृशं नियुक्तस्तस्यां  मदनेन मदोत्कटः   तं राक्षसः कामं शशाकात्मनि गूहितुम्
Verse 6
 सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः
Verse 7
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् सदा मदैश्च विहगैर्विचित्रां परमाद्भुताम्
Verse 8
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः वीधीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् अशोकवनिकामेव प्राविशत्संततद्रुमाम्
Verse 9
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः वीधीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् अशोकवनिकामेव प्राविशत्संततद्रुमाम्
Verse 10
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः
Verse 11
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः वालव्यजनहस्ताश्च तालवृन्तानि चापराः
Verse 12
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः मण्डलाग्रान् बृसीश्चापि गृह्यान्याः पृष्ठतो ययुः
Verse 13
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना
Verse 14
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ
Verse 15
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव
Verse 16
व्याविद्धहारकेयूराः समामृदितवर्णकाः समागळितकेशान्तास्सस्वेदवदनास्तथा घूर्णन्त्यो मदशेषेण निद्रया  शुभाननाः स्वेदक्लिष्टाङ्गकुसुमास्सुमाल्याकुलमूर्धजाः प्रयान्तं नैऋतपतिं नार्यो मदिरलोचनाः बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः
Verse 17

Verse 18

Verse 19
  कामपराधीन: पतिस्तासां महाबलः सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ
Verse 20
ततः काञ्चीनिनादं  नूपुराणां  निस्वनम् शुश्राव परमस्त्रीणां  कपिर्मारुतात्मजः
Verse 21
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः
Verse 22
दीपिकाभिरनेकाभिः समन्तादवभासितम् गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः
Verse 23
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् समक्षमिव कन्दर्पमपविद्धशरासनम्
Verse 24
मथितामृतफेनाभमरजोवस्त्रमुत्तमम् सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे
Verse 25
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः समीपमिव संक्रान्तं निध्यातुमुपचक्रमे
Verse 26
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः
Verse 27
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः तन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम्
Verse 28
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः तेन विश्रवसः पुत्रः  दृष्टो राक्षसाधिपः वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः तं ददर्श महातेजास्तेजोवन्तं महाकपिः
Verse 29
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः तेन विश्रवसः पुत्रः  दृष्टो राक्षसाधिपः वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः तं ददर्श महातेजास्तेजोवन्तं महाकपिः
Verse 30
रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः अवप्लुतो महातेजा हनुमान्मारुतात्मजः
Verse 31
 तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत्
Verse 32
 तामसितकेशान्तां सुश्रोणीं संहतस्त्नीम् दिदृक्षुरसितापाङ्गामुपावर्तत रावणः
0:000:00
Speed: