Book 5 • Chapter 19
Sarga 19
23 verses
Verse 1
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् प्रावेपत वरारोहा प्रवाते कदली यथा
Verse 2
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् प्रावेपत वरारोहा प्रवाते कदली यथा
Verse 3
आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी
Verse 4
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे
Verse 5
असंवृतायामासीनां धरण्यां संशितव्रताम् छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः
Verse 6
मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम् मृणाली पङ्कदिग्धेव विभाति न विभाति च
Verse 7
समीपं राजसिंहस्य रामस्य विदितात्मनः सङ्कल्पहयसंयुक्सैर्यान्तीमिव मनोरथैः
Verse 8
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्
Verse 9
वेष्टमानां तथाऽविष्टां पन्नगेन्द्रवधूमिव धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना
Verse 10
वृत्तशीलकुले जातामाचारवति धार्मिके पुनःसंस्कारमापन्नां जातामिव च दुष्कुले
Verse 11
अभूतेनापवादेन कीर्तिं निपतितामिव आम्नायानामयोगेन विद्यां प्रशिथिलामिव
Verse 12
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् पूजामिव परिक्षीणामाशां प्रतिहतामिव
Verse 13
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव दीप्तामिव दिशं काले पूजामपहृतामिव
Verse 14
पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम्
Verse 15
वेदीमिव परामृष्टां शान्तामग्निशिखामिव पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम्
Verse 16
उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव
Verse 17
पतिशोकातुरां शुष्कां नदीं विस्रावितामिव परया मृजया हीनां कृष्णपक्षनिशामिव
Verse 18
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्
Verse 19
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव
Verse 20
एकया दीर्घया वेण्या शोभमानामयत्नतः नीलया नीरदापाये वनराज्या महीमिव
Verse 21
उपवासेन शोकेन ध्यानेन च भयेन च परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्
Verse 22
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव भावेन रघुमुख्यस्य दशग्रीवपराभवम्
Verse 23
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम् अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः
0:000:00
Speed: