🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 20

Sarga 20

36 verses

Verse 1
 तां परिवृतां दीनां निरानन्दां तपस्विनीम् साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः
Verse 2
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि
Verse 3
कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे
Verse 4
नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्
Verse 5
स्वधर्मो रक्षसां भीरु सर्वथैव  संशयः गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा
Verse 6
एवं चैतदकामां तु  त्वां स्प्रक्ष्यामि मैथिलि कामं कामः शरीरे मे यथाकामं प्रवर्तताम्
Verse 7
देवि नेह भयं कार्यं मयि विश्वसि हि प्रिये प्रणयस्व  तत्त्वेन मैवं भूः शोकलालसा
Verse 8
एकवेणी धराशय्या ध्यानं मलिनमम्बरम् अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते
Verse 9
विचित्राणि  माल्यानि चन्दनान्यगरूणि  विविधानि  वासांसि दिव्यान्याभरणानि  महार्हाणि  पानानि शयनान्यासनानि  गीतं नृत्तं  वाद्यं  लभ मां प्राप्य मैथिलि
Verse 10
विचित्राणि  माल्यानि चन्दनान्यगरूणि  विविधानि  वासांसि दिव्यान्याभरणानि  महार्हाणि  पानानि शयनान्यासनानि  गीतं नृत्तं  वाद्यं  लभ मां प्राप्य मैथिलि
Verse 11
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् मां प्राप्य हि कथं नु स्वास्त्वमनर्हा सुविग्रहे
Verse 12
इदं ते चारु सञ्जातं यौवनं व्यतिवर्तते यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव
Verse 13
त्वां कृत्वोपरतो मन्ये रूपकर्ता  विश्वसृक्  हि रूपोपमा त्वन्या तवास्ति शुभदर्शने
Verse 14
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् कः पुमानतिवर्तेत साक्षादपि पितामहः
Verse 15
यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते
Verse 16
भव मैथिलि भार्या मे मोहमेनं विसर्जय बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः सर्वासामेव भद्रं ते ममाग्रमहिषी भव
Verse 17
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै तानि मे भीरु सर्वाणि राज्यं चैतदहं  ते
Verse 18
विजित्य पृथिवीं सर्वां नानानगरमालिनीम् जनकाय प्रदास्यामि तव हेतोर्विलासिनि
Verse 19
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे
Verse 20
असकृत्संयुगे भग्ना मया विमृदितध्वजाः अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः
Verse 21
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि  साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा
Verse 22
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि  साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा
Verse 23
प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने भुंक्ष्व भोगान्यथाकामं पिब भीरु रमस्व 
Verse 24
यथेष्टं  प्रयच्छ त्वं पृथिवीं वा धनानि  ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व 
Verse 25
मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे
Verse 26
किं करिष्यसि रामेण सुभगे चीरवाससा निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः व्रती स्थण्डिलशायी  शङ्के जीवति वा  वा
Verse 27
 हि वैदेहि रामस्त्वां द्रष्टुं वा प्युपलप्स्यते पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्
Verse 28
 चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव
Verse 29
चारुस्मिते चारुदति चारुनेत्रे विलासिनि मनो हरसि मे भीरु सुपर्णः पन्नगं यथा
Verse 30
क्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम् त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्
Verse 31
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः यावन्त्यो मम सर्वासामैश्वर्यम् कुरु जानकि
Verse 32
मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा
Verse 33
यानि वैश्रवणे सुभ्रु रत्नानि  धनानि  तानि लोकांश्च सुश्रोणि मां  भुङ्क्ष्व यथासुखम्
Verse 34
 रामस्तपसा देवि  बलेन  विक्रमैः  धनेन मया तुल्यस्तेजसा यशसापि वा
Verse 35
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं  मयि लल ललने यथासुखं त्वं त्वयि  समेत्य ललन्तु बान्धवास्ते
Verse 36
कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि
0:000:00
Speed: