Book 5 • Chapter 21
Sarga 21
34 verses
Verse 1
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः
Verse 2
दुःखार्ता रुदती सीता वेपमाना तपस्विनी चिन्तयन्ती वरारोहा पतिमेव पतिव्रता तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता
Verse 3
निवर्तय मनो मत्तः स्वजने क्रियतां मनः न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत्
Verse 4
अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् कुलं सम्प्राप्तया पुण्यं कुले महति जातया
Verse 5
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्
Verse 6
नाहमौपयिकी भार्या परभार्या सती तव साधु धर्ममवेक्षस्व साधु साधुव्रतं चर
Verse 7
यथा तव तथान्येषां दारा रक्ष्या निशाचर आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्
Verse 8
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्
Verse 9
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे तथाहि विपरीता ते बुद्धिराचारवर्जिता
Verse 10
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः राक्षसानामभावाय त्वं वा न प्रतिपद्यसे
Verse 11
अकृतात्मानमासाद्य राजानमनये रतम् समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च
Verse 12
तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला अपराधात्तवैकस्य नचिराद्विनशिष्यति
Verse 13
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः अभिनन्दन्ति भूतानि विनाशे पापकर्मणः
Verse 14
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः
Verse 15
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा अनन्या राघवेणाहं भास्करेण प्रभा यथा
Verse 16
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् कथं नामोपधास्यामि भुजमन्यस्य कस्य चित्
Verse 17
अहमौपयिकी भार्या तस्यैव वसुधापतेः व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः
Verse 18
साधु रावण रामेण मां समानय दुःखिताम् वने वाशितया सार्धं करेण्वेव गजाधिपम्
Verse 19
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः
Verse 20
विदितः स हि धर्मज्ञः शरणागतवत्सलः तेन मैत्री भवतु ते यदि जीवितुमिच्छसि
Verse 21
प्रसादयस्व त्वं चैनं शरणागतवत्सलम् मां चास्मै नियतो भूत्वा निर्यातयितुमर्हसि
Verse 22
एवं हि ते भवेत्स्वस्ति सम्प्रदाय रघूत्तमे अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण
Verse 23
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् त्वद्विधं तु न सङ्कृद्धो लोकनाथः स राघवः
Verse 24
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् शतक्रतुविसृष्टस्य निर्घोषमशनेरिव
Verse 25
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगा: इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः
Verse 26
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः असंपातं करिष्यन्ति पतन्तः कङ्कवाससः
Verse 27
राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् उद्धरिष्यति वेगेन वैनतेय इवोरगान्
Verse 28
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः
Verse 29
जनस्थाने हतस्थाने निहते रक्षसां बले अशक्तेन त्वया रक्षः कृतमेतदसाधु वै
Verse 30
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम
Verse 31
न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव
Verse 32
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे
Verse 33
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह तोयमल्पमिवादित्यः प्राणानादास्यते शरैः
Verse 34
गिरिं कुबेरस्य गतोऽथ वालयं सभां गतो वा वरुणस्य राज्ञः असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव
0:000:00
Speed: