Book 5 • Chapter 22
Sarga 22
46 verses
Verse 1
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्
Verse 2
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा यथा यथा प्रियं वक्ता परिभूतस्तथा तथा
Verse 3
सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः
Verse 4
वामः कामो मनुष्याणां यस्मिन् किल निबध्यते जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते
Verse 5
एतस्मात्कारणान्न त्वां घातयामि वरानने वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम्
Verse 6
परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः
Verse 7
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्
Verse 8
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ततः शयनमारोह मम त्वं वरवर्णिनि
Verse 9
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् मम त्वां प्रातराशार्थमालभन्ते महानसे
Verse 10
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः
Verse 11
ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथापराः सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा
Verse 12
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्
Verse 13
नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थित: निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात्
Verse 14
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः
Verse 15
राक्षसाधम रामस्य भार्याममिततेजसः उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे
Verse 16
यथा दृप्तश्च मातङ्गः शशश्च सद्दृशो युधि तथा मातङ्गवद्रामस्त्वं नीच: शशवत् स्मृतः
Verse 17
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे चक्षुषोर्विषयं तस्य न तावदुपगच्छसि
Verse 18
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः
Verse 19
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते
Verse 20
असन्देशात्तु रामस्य तपसश्चानुपालनात् न त्वां कुर्मि दशग्रीव भस्म भर्मार्ह तेजसा
Verse 21
नापहर्तुमहं शक्या त्वया रामस्य धीमतः विधिस्तव वधार्थाय विहितो नात्र संशयः
Verse 22
शूरेण धनदभ्रात्रा बलैः समुदितेन च अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्
Verse 23
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः विवृत्य नयने क्रूरे जानकीमन्ववैक्षत
Verse 24
नीलजीमूतसङ्काशो महाभुजशिरोधरः सिंहसत्त्वगतिः श्रीमान् दीप्त जिह्वाग्रलोचनः
Verse 25
चलाग्रमकुटप्रांशुश्चित्रमाल्यानुलेपनः रक्तमाल्याम्बरधर तत्सङ्गदविभूषणः
Verse 26
श्रोणिसूत्रेण महता मेचकेन सुसंवृतः अमृतोत्पादनद्धेन भुजगेनेव मन्दरः
Verse 27
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः
Verse 28
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः
Verse 29
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः
Verse 30
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः उवाच रावणः सीतां भुजङ्ग इव निःश्वसन्
Verse 31
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा
Verse 32
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः
Verse 33
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम् एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्
Verse 34
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम् एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्
Verse 35
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम् एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्
Verse 36
यथा मद्वशगा सीता क्षिप्रं भवति जानकी तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च
Verse 37
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः आवर्जयत वैदेहीं दण्डस्योद्यमनेन च
Verse 38
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः काममन्युपरीतात्मा जानकीं पर्यतर्जयत्
Verse 39
उपगम्य ततः शीघ्रं राक्षसी धान्यमालिनी परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्
Verse 40
मया क्रीड महाराज सीतया किं तवानया विवर्णया कृपणया मानुष्या राक्षसेश्वर
Verse 41
नूनमस्या महाराज न दिव्यान् भोगसत्तमान् विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान्
Verse 42
अकामां कामयानस्य शरीरमुपतप्यते इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना
Verse 43
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली प्रहसन्मेघसङ्काशो राक्षसः स न्यवर्तत
Verse 44
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्
Verse 45
देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः परिवार्य दशग्रीवं विविशुस्तं गृहोत्तमम्
Verse 46
स मैथिलीं धर्मपरामवस्थितां प्रपेपमानां परिभर्त्स्य रावणः विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम्
0:000:00
Speed: