🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 23

Sarga 23

19 verses

Verse 1
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः सन्दिश्य  ततः सर्वा राक्षसीर्निर्जगाम 
Verse 2
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः
Verse 3
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः परं परुषया वाचा वैदेहीमिदमब्रुवन्
Verse 4
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः दशग्रीवस्य भार्या त्वं सीते  बहुमन्यसे
Verse 5
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् आमन्त्य्र क्रोधाताम्राक्षी सीतां करतलोदरीम्
Verse 6
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः
Verse 7
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः नाम्ना  विश्रवा नाम प्रजापतिसमप्रभः
Verse 8
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि मयोक्तं चारुसर्वाङ्गिः वाक्यं किं नानुमन्यसे
Verse 9
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा
Verse 10
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि
Verse 11
ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत्
Verse 12
वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेषु निवर्तिनः बलिनो वीर्ययुक्तस्य भार्यात्वं किं  लप्स्यसे
Verse 13
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः सर्वासां  महाभागां त्वामुपैष्यति रावणः
Verse 14
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः
Verse 15
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् असकृद्देवता युद्धे नागगन्धर्वदानवाः निर्जिताः समरे येन  ते पार्श्वमुपागतः
Verse 16
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् असकृद्देवता युद्धे नागगन्धर्वदानवाः निर्जिताः समरे येन  ते पार्श्वमुपागतः
Verse 17
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे
Verse 18
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् यस्य सूर्यो  तपति भीतो यस्य  मारुतः  वाति स्मायतापाङ्गे किं त्वं तस्य  तिष्ठसि
Verse 19
पुष्पवृष्टिं  तरवो मुमुचुर्यस्य वै भयात् शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति तस्य नैरृतराजस्य राजराजस्य भामिनि किं त्वं  कुरुषे बुद्धिं भार्यार्थे रावणस्य हि
0:000:00
Speed: