Book 5 • Chapter 24
Sarga 24
48 verses
Verse 1
ततः सीतामुपागम्य राक्षस्यो विकृताननाः परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम्
Verse 2
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे महार्हशयनोपेते न वासमनुमन्यसे
Verse 3
मानुषी मानुषस्यैव भार्यात्वं बहुमन्यसे प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि
Verse 4
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् भर्तारमुपसङ्गम्य विहरस्व यथासुखम्
Verse 5
मानुषी मानुषं तं तु राममिच्छसि शोभने राज्याद्भ्र्रष्टमसिद्धार्थं विक्लबं त्वमनिन्दिते
Verse 6
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
Verse 7
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः
Verse 8
न मानुषी राक्षसस्य भार्या भवितुमर्हति कामं खादत मां सर्वा न करिष्यामि वो वचः
Verse 9
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला
Verse 10
यथा शची महाभागा शक्रं समुपतिष्ठति अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा सावित्री सत्यवन्तं च कपिलं श्रीमती यथा सौदासं मदयन्तीव केशिनी सगरं यथा नैषधं दमयन्तीव भैमी पतिमनुव्रता तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता
Verse 11
यथा शची महाभागा शक्रं समुपतिष्ठति अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा सावित्री सत्यवन्तं च कपिलं श्रीमती यथा सौदासं मदयन्तीव केशिनी सगरं यथा नैषधं दमयन्तीव भैमी पतिमनुव्रता तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता
Verse 12
यथा शची महाभागा शक्रं समुपतिष्ठति अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा सावित्री सत्यवन्तं च कपिलं श्रीमती यथा सौदासं मदयन्तीव केशिनी सगरं यथा नैषधं दमयन्तीव भैमी पतिमनुव्रता तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता
Verse 13
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः
Verse 14
अवलीनः स निर्वाक्यो हनूमान् शिंशुपाद्रुमे यसीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः
Verse 15
तामभिक्रम्य सङ्कृद्धा वेपमानां समन्ततः भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्
Verse 16
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् नेयमर्हति भर्तारं रावणं राक्षसाधिपम्
Verse 17
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना सबाष्पमप सर्पन्ती शिंशुपां तामुपागमत्
Verse 18
ततस्तां शिंशुपां सीता राक्षसीभिः समावृता अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता
Verse 19
तां कृशां दीनवदनां मलिनाम्बरधारिणीम् भर्त्सयाञ्चक्रिरे सीतां राक्षस्यस्तां समन्ततः
Verse 20
ततस्तां विनता नाम राक्षसी भीमदर्शना अब्रवीत्कुपिताकारा कराला निर्णतोदरी
Verse 21
सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः सर्वात्रातिकृतं भद्रे व्यसनायोपकल्पते
Verse 22
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि
Verse 23
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम्
Verse 24
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम्
Verse 25
मानुषं कृपणं रामं त्यक्त्वा, रावणमाश्रय दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता अद्यप्रभृति सर्वेषां लोकानामीश्वरी भव
Verse 26
अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने किं ते रामेण वैदेहि कृपणेन गतायुषा
Verse 27
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्
Verse 28
अन्या तु विकटा नाम लम्बमानपयोधरा अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती
Verse 29
बहून्यप्रियरूपाणि वचनानि सुदुर्मते अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि
Verse 30
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि
Verse 31
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि
Verse 32
रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम् न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः
Verse 33
कुरुष्व हितवादिन्या वचनं मम मैथिलि अलमश्रुप्रपातेन त्यज शोकमनर्थकम्
Verse 34
भज प्रीतिं च हर्षं च त्यजैतां नित्यदैन्यताम् सीते राक्षसराजेन सह क्रीड यथासुखम्
Verse 35
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि
Verse 36
उद्यानानि च रम्याणि पर्वतोपवनानि च सह राक्षसराजेन चर त्वं मदिरेक्षणे
Verse 37
स्त्री सहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्
Verse 38
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि
Verse 39
ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्छिता भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्
Verse 40
इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम् रावणेन हृतां दृष्टवा दौहृदो मे महानभूत्
Verse 41
यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् आन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः
Verse 42
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् कण्ठमस्या नृशंसायाः पीडयाम किमास्यते
Verse 43
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह नात्र कश्चन संदेहः खादतेति स वक्ष्यति
Verse 44
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् विशस्येमां ततः सर्वाः समान् कुरुत पिण्डकान्
Verse 45
विभजाम ततः सर्वा विवादो मे न रोचते पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु
Verse 46
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् अजामुख्या यदुक्तं हि तदेव मम रोचते
Verse 47
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम्
Verse 48
एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा राक्षसीभिः सुघोराभिर्दैर्यमुत्सृज्य रोदिति
0:000:00
Speed: